तस्मै प्रेति । क्रयार्थे वस्तुनि क्रय्य इति निपात्यते इत्यर्थो, व्याख्यानात् । गुण भूतस्यापि तदा परामर्शः । क्रयार्थत्वञ्च फलोपधानरूपं तदर्थे इति विशेषणात्तदाह – क्रेतार इति । योग्यतामात्रग्रहणे त्वव्यावर्त्तकं तत्स्यादिति भावः । केचित्तु स्वीयं धान्यादि दत्त्वा यत्र तन्मूल्यग्रहणं तत्र धान्यं क्रय्यम् । यत्र तु स्वयं द्रव्यं दत्त्वा परकीयधान्यादिग्रहणं तत्र धान्यं क्रेयम्। द्रव्ये तु न क्रय्यत्वं नापि क्रेयत्वं, किं तु धान्यादेरेव, शक्तिस्वभावात् । भाष्यस्वरसोऽप्येवमेवेत्याहुः ॥