क्षय्यजक्षि क्षये <{१.२६९}> जि जये <{१.६४२}> इत्यनयोरेव ग्रहणम् । न तु क्षीष् हिंसायाम् <{९.४२}> क्षै जै क्षये इत्यनयोर्व्याख्यानात् । अत एव क्षिज्योरेवैचः इति भाष्ये उक्तम् ॥