धातोस्त । धातोरित्यस्याभावे प्रातिपदिकमात्रविषयो नियमः स्यात् । तथा च गव्यम् इत्यत्र न स्यात् । ओयते इत्यत्र च स्यात् । तदभावे सामान्यतो नियमापादनन्तु योगविभागैवकारवैयर्थ्यापत्तेरयुक्तम्। तन्निमित्तस्य चेद्धातोरेव इति नियमे बाभ्रव्यासिद्धेस्तद्वारणायैवकारः । लाव्यमित्यादि । अत्र गुणवृद्ध्योर्यण्ण्यन्निमित्तकत्वेनैचो यादिप्रत्ययनिमित्तकता । तन्निमित्तस्येति किमिति । सूत्रमेव किमर्थमिति प्रश्नः । ओयत इति । वेञः कर्मणि लटि यकि यजादित्वात्सम्प्रसारणे अकृत्सार्वधातुकयोर्दीर्घः [[७.४.२५]] इति दीर्घे आङा सहाऽऽद्गुणः । न धातुलोप आर्धधातुके [[१.१.४]] सूत्रभाष्यरीत्या बहिर्भूतधातूपसर्गकार्यस्य बहिरङ्गत्वाद्वान्तादेशे गुणोऽसिद्ध इत्यरुचेराह – औयतेति । तस्मादेव कर्मणि लङि आडागमे वृद्धिः । शेषं पूर्ववत् ॥