वान्तो । येन विधिस्तदन्तस्य [[१.१.७२]] इत्यस्यापवादभूतया तस्मान्नुडचि [[६.३.७४]] इत्याद्यर्थमावश्यिकया वाचनिकया <!यस्मिन्विधिस्तदादावल्ग्रहणे!> (वा० [[१.१.७२]]) इति वार्त्तिककृदुक्तपरिभाषया लब्धमर्थमाह - यकारादाविति । ओदौतोरिति । ओदौतोरिति वक्तव्यम् इति वार्त्तिकमूलाद् व्याख्या नादिति भावः । पूर्वसूत्रे वान्तौ प्रति तयोरेव स्थानित्वनिर्णयात् इति स्थानेऽन्तरतमसूत्रस्थकैयटोक्तं तु न युक्तम् । वान्तज्ञानाय सूत्रपर्यालोचनस्याऽऽवश्यकत्वेऽपि तद्वाक्यार्थपर्यालोचने मानाभावात् । यथासङ्ख्यसूत्रसहकारेण बोधोत्तरं तयोस्तत्त्वनिर्णयात् । अन्तरतमपरिभाषया निर्वाहे तु लक्ष्यपर्यालोचनकाले तन्निर्णयः । अत एव पूर्वसूत्रे स्थानिविशेषलाभो यथासङ्ख्यसम्बन्धादिह तु निमित्ताभावाल्लाभाभाव: इति षष्ठे प्रकृतसूत्रे कैयटः । गव्यमिति । भत्वाद्वलोपो न। यीति किम् ? गोभ्याम् । प्रत्यये किम् ? गोयानम् । ननुः गव्यूति: इत्यत्र वस्य लोपः शाकल्यस्य [[८.३.१९]], हलि सर्वेषाम् [[८.३.२२]] इति वा लोपः स्यादत आह - वान्त इत्यत्रेति । न च विशेषविहितेन कार्यित्वेन लोपे वस्य निमित्तत्वबाध इति वाच्यम् । निमित्तत्वानाक्रान्ते विषये कार्यित्वस्य चारितार्थ्यात् । तक्रकौण्डिन्यन्यायश्चानवकाशविषयो विधेयविषयश्चेति स्पष्टं तद्धितेष्वचामादेः [[७.२.११७]] इति सूत्रे यङ्विधायके च भाष्ये । अन्त्ये उत्तरयोर्विग्रहेण विशेषासम्प्रत्ययान्नित्यग्रहणानर्थक्यं, क्रियासमभिहारे च नैतेभ्यो यङा भवितव्यम् इति भाष्ये चेन विशेषासम्प्रत्ययादित्यनुकृष्यते । अन्यथा तक्रकौण्डिन्यन्यायेन सिद्धे विशेषासम्प्रत्ययादित्यनुकर्षकचकारवैयर्थ्यापत्तिः । निरूपयिष्यते चेदं यङन्ते । तस्य च वार्त्तिकेऽनुवृत्त्या यूतौ श्रूयमाणवकारान्त आदेश इत्यर्थः । सूत्रे तु न फलं, गव्यादौ भत्वेन वान्तस्य पदत्वाभावात्, लव्ये स्वत एव तदभावात् लोपाप्राप्तेः । गोशब्दादिभ्यः क्यजादावपि न: क्ये [[१.४.१५]] इति नियमेन पूर्वस्य पदत्वाभावात् । एवन्तर्हि वार्त्तिके एव प्रश्लेष उचित इत्याशयेनाह – छकाराद्वेति । लोपो व्योर्वलि [[६.१.६६]] इति सूत्रे वकारप्रत्याख्यानं तु लौकिकोदाहरणाभावेन तदर्थतया बोद्ध्यम् । अत एव इको गुणवृद्धी [[१.१.३]] इति सूत्रे अतो ल्रान्तस्य [[७.२.२]] इत्यत्र लुप्तनिर्दिष्टो वकार इत्युक्तं भाष्ये । शास्त्रीयसौत्रप्रयोगार्थं तदिति तदाशयः । न चैवं विष्णवे इत्यादौ तस्य लोप: [[१.३.९]] इति दुर्वारं गव्यूतौ उच्चारणस्य चारितार्थ्यादिति वाच्यम् । <!गवि च युक्ते!> (वा० [[६.३.४६]]) इत्यादिनिर्देशैर्वारणात् । परे तु सा पूर्वपक्ष्युक्तिरिति न वकारप्रश्लेषो लोपेनोचितः । किञ्च छन्दसि सर्वविधीनां व्यवस्थितत्वान्न वलोपप्रसक्तिस्तत्रत्ये गव्यूतौ । अध्वपरिमाणेऽपि संज्ञाशब्दोऽयम्, तत्र सञ्ज्ञात्वभङ्गापत्तेर्न वलोपः । यथा रघुनाथ इति संज्ञाशब्दे नित्यस्यापि णत्वस्याभावः । सर्वनामशब्दे णत्वाऽऽशङ्का तु तस्य सञ्ज्ञिविशेषे आधुनिकविनियोगात् शास्त्रानुसारिशब्दस्यैव विनियोग उचित इत्यभिप्रायेण । निरूपितञ्चैतत्सर्वादिनीतिसूत्रे भाष्यप्रदीपोद्घोते इत्याहुः । निरूपयिष्यते चेदं पूर्वपदात् संज्ञायामगः [[८.४.३]] इति सूत्रे ॥