एचोऽय । “इचोऽचि यणयवायावः” “अवावौ यि प्रत्यये” इति सूत्रयितुमुचितमित्याहुः । यथासंख्यसूत्रलब्धमर्थमाह - क्रमादिति । उदात्तादिगुणयुक्तानामन्य – गुणकव्यावृत्तिस्तु स्थानेऽन्तरतमपरिभाषया बोद्ध्या । एतदेवाभिप्रेत्य यथासंख्यमनुदेशः समानाम् [[१.३.१०]] सूत्रे भाष्ये प्रकृतसूत्रे स्थानेऽन्तरतमः [[१.१.५०]] सूत्रेण व्यवस्थोक्ता संवृतावर्णस्य संवृतावर्णो विवृतावर्णस्य विवृतावर्ण इति । एतद्भाष्यप्रामाण्येन “एओ” इत्यनयोरकारांशे संवृतत्वम् । इतरांशे विवृततरत्वम् । तदुपरागाच्च न संवृतत्वस्य पृथग् ग्रहणम् । “ऐऔ” इत्यनयोस्त्वकारांशेऽपि विवृतत्वमेवेति बोद्ध्यम् ॥