स्यादिति । कार्यशब्दवादे इदम् । संहितायां विषये इति । कार्यिनिमित्तयोः संहितायां विषयभूतायामित्यर्थः । स्थानत इति । इदं यथासंख्यसूत्रे भाष्ये स्पष्टम् । जातिपक्षे यथासंख्येनापि निर्वाह इति स्थानेऽन्तरतमः [[१.१.५०]] सूत्रे भाष्ये स्पष्टम् । अनु नासिकस्थानेऽपि निरनुनासिक एव, विधीयमानत्वेन सवर्णाग्राहकत्वात् । गुणाभेदकत्वपक्षोऽपि न विधेयाण्विषये। दीर्घादीनामिगादिपदैरुपस्थितये प्रत्याहारेषु जातिपक्ष एव इति अणुदित् सवर्णस्य चाप्रत्ययः [[१.१.६९]] सूत्रे भाष्ये स्पष्टम् । अत एव सर्वतकारादीनां झल्त्वादिसिद्धिः ल्वादय इत्यादिनिर्देशादयश्च जात्याश्रयणे मानमिति दिक् । व्याकरणस्य साध्वनुशासनत्वन्तु शब्दनित्यतापक्षे शब्दानां सिद्धत्वेन शास्त्रवैयर्थ्यापत्त्या मृजिप्रसङ्गे मार्जिः साधुर्भवति इत्यादिवृद्धिसञ्ज्ञासूत्रस्थभाष्यप्रामाण्येन यदिह परिनिष्ठितत्वेन ज्ञाप्यन्तत्साधु इत्यर्थापत्तिकल्प्यवाक्येन बोद्ध्यम् । कार्यशब्दवादे तु पूर्वभाष्योन्नीतानादितात्पर्यवशात् तत्कल्पनं बोध्यम् । एतेन स्थानत आन्तर्यादितिकथनेन स्थानप्रमाणोभयान्तरतमे ह्रस्वेकारे चरितार्थो यण् दीर्घे कथं स्यादित्यपास्तम् । स्थानत आन्तर्यस्य सर्वतो बलवत्त्वात् स्थानेऽन्तरतमे इति सप्तम्यन्तपाठस्य चैतद्दूषणेनैव भाष्ये दूषितत्वादिति भावः ॥