इन्द्रे च । क्वचिद्भाष्यपुस्तके चशब्दरहितः पाठः । इन्द्रावयवेऽचीत्यर्थस्तेन षष्ठीतत्पुरुषोत्तरपदषष्ठीतत्पुरुषे गवेन्द्रयज्ञ इत्यादाववङ्सिद्धिः । अन्यथा वाक्ये गोशब्दस्येन्द्रपरत्वासम्भवेन समासाक्षेपादिन्द्रशब्दस्योत्तरपदत्व एव प्रवृत्तिः स्यात् ॥