अवङ् । स्फोटोऽयनं यस्य सः, स्फोटप्रतिपादक इत्यर्थः । “स्फौटायनस्य” इतिपाठे नडादित्वं कल्प्यम् । स्फोटायनोऽवङः स्मर्त्ताऽन्यस्तु तद भावस्येति स्मृत्यन्तरानुसन्धानद्वारेणात्र विकल्पो बोद्ध्यः । निवृत्तमिति । अत एव इन्द्रे इति सामर्थ्यान्नित्यम् इति भाष्यादावुक्तम् । गवाग्रमिति । सन्निपातपरिभाषया अनित्यत्वाद्दीर्घ इति बोद्ध्यम् । व्यवस्थितेति । देवत्रातो गलो ग्राह इतियोगे च सद्विधिः । मिथस्ते न विभाष्यन्ते गवाक्षः संशितव्रतः ।। । तेन प्राण्यवयवे नेति शाश्छोरन्यतरस्याम् [[७.४.४१]] इति सूत्रे भाष्ये स्पष्टम् । अग्नीत्प्रेषणे परस्य च [[८.२.९२]] इति सूत्रे अग्नीदग्नीन्विहर इत्यत्र एतद्व्यावृत्त्यर्थं वार्त्तिककृद्बहुलग्रहणघटितं न्यासं कृतवान् । तत्प्रत्याख्यानाय भाष्ये कृतेन विभाषा इति योगविभागेन विभाषेत्यस्य व्यवस्थितविभाषात्वं ध्वनितम् । तथा अजेर्व्यघञपो: [[२.४.५६]] इति च व्यवस्थितविभाषेति अजेर्वी इति सूत्रे भाष्ये स्पष्टम् । न च व्यवस्थितविभाषयेन्द्रे नित्याऽवङि सिद्धे इन्द्रे च [[६.१.१२४]] इति व्यर्थमिति वाच्यम् । भाष्योक्तातिरिक्तव्यवस्थितविभाषाणामप्रामाणिकत्वज्ञापनार्थं तत्सत्त्वादित्याहुः ॥