सर्वत्र वि । प्रकृत्याऽन्तः पादमव्यपरे [[६.१.११५]] इति सूत्रात्प्रकृत्येत्यनुवर्त्तते । प्रकृतिशब्दोऽत्र स्वभाववाची दुस्त्यजा प्रकृतिः इत्यादौ तथा दर्शनात् । प्रकृत्या स्वभावेनावस्थानमित्यर्थः । अत एव प्रकृतिभावे न पूर्वरूपं नाप्ययादय इति भावः । नान्तः पादम् इति पाठे त्वनेन सूत्रेण गोशब्दस्य यत्प्राप्तं तन्नेति व्याख्यानेन नान्त: पादमित्यनेनैव पूर्वरूपत्वादिकं विकल्पेन निषिद्ध्यत इति बोद्ध्यम् ॥