अज्झलो: सावर्ण्यनिषेधादाह - अचि किमिति । अनिष्पत्तेरिति । नाज्झलौ [[१.१.१०]] इति सूत्रविषयनिर्णयेऽपवादविषयपरिहारेण तत्तद्वर्णीयसवर्णपदवाच्यनिर्णयोत्तरं तावतां ग्रहणस्य ग्रहणकशास्त्रबोद्ध्यतयैतद्बोधकाले ग्रहणकशास्त्रस्य तावद्ग्रहणबोधक-त्वानिष्पत्तेरित्यर्थः । सूत्रस्थसवर्णपदानुवृत्तिमभिप्रेत्याह - ऋति सवर्ण इति । तत्फलं दध्यृकारादावेतदप्रवृत्तिः । एतद्विधेययोः अइउण् सूत्रानन्तरं पाठादच्त्वम् । तेन तयोः स्थाने प्लुतसिद्धिस्तयोश्च न रपरत्वम् । द्विमात्रमिति । अत एव अकः सवर्णे दीर्घः [[६.१.१०१]] इत्यनेनैव ऋकारद्वयस्य स्थाने रेफद्वयवत्तारूपगुणकृताऽऽन्तर्येण कदाचिद्रेफद्वयगर्भस्य विवृतत्वाऽऽन्तर्येण कदाचिद्विवृतस्य, ऌकारे लकारवत्तान्तर्येण कदाचिद् द्विलकारस्य, कदाचिद्विवृतत्वसाम्येन रेफवत्तासाम्येन च तादृशस्य ऋकारस्य सिद्ध्या विकल्पफलसिद्धिमाश्रित्यैतद्वचनद्वयं तुल्यास्यप्रयत्नं सवर्णम् [[१.१.९]] इति सूत्रे भाष्ये प्रत्याख्यातम् । द्वौ रेफाविति । अत्रापि तदेव भाष्यं मानम् । द्विरेफत्वे हि रेफद्वयवति स्थानिन्ययं, लकारवत्यपर इति व्यवस्था सिद्ध्यति । अभित इति । द्वौ रेफावित्यनुषज्यते । तच्च द्वितीयान्तम् । अभितः पदयोगात् । एओङ् सूत्रे भाष्ये मातॄणाम् इत्यादौ णत्वादिसिद्ध्यर्थमवश्यमङ्गीकर्त्तव्ये वर्णैकदेशा वर्णग्रहणेन गृह्यन्ते इति पक्षे प्रलूय, खट्वाभिः, वाचा तरति इत्यादौ तुगैस्द्व्यज्लक्षणानां शङ्कायाः, दीर्घात् [[६.१.७५]] इति तुग्विधानसामर्थ्यतपरकरणसामर्थ्यं नौद्व्यचष्ठन् [[४.४.७]] इति सूत्रस्थनौग्रहणसामर्थ्येर्भेदेनाप्रतिभासमानेषु वर्णावयवेषु अवयवसदृशस्वतन्त्रवर्णाश्रयकार्याभावज्ञापनरूपसमाधानस्य च करणवत् प्रातर्ऋतम् इत्यत्र रो रि [[८.३.१४]] इत्यस्य तद्लृकार इत्यादौ तोर्लि [[८.४.६०]] इत्यस्य च शङ्कासमाधानाकरणेन यत्तद्रेफात्परं भक्तेः इति हयवरट् सूत्रस्थभाष्येण च ऋलृक् - सूत्रस्थयोरर्धमात्राज्भागस्याभितः क्लृप्तत्वेन तथैवोचितत्वादिति भावः । द्वौ लकाराविति । हल्द्वयवत्पूर्वसाहचर्यादिति भावः। अत्र ह्रस्वऋकारद्वयस्थानिकैकादेशे एव पूर्वस्य साधुत्वं ह्रस्वऋकारऌकारस्थानिकैकादेशे एवोत्तरस्य साधुत्वम् । अत एव ऌति न ऋकारो नाप्यृति लृकारः । अत एव वार्त्तिके ऋतीति तपरकरणमुत्तरवार्त्तिके ऌतीति च चरितार्थम् । तुल्यास्यसूत्रे भाष्ये यदेतदृतीति एतदृत इति वक्ष्यामि इत्येतद्वचनाश्रयणेन ऋऌवर्णयोः सावर्ण्यं न कार्यमिति च सङ्गच्छते । उपस्थितरेफीयप्रयत्नत्यागे मानाभावादीषत्स्पृष्टाविमौ । विवृतत्वे हि विवृतऋकारऌकाराभ्यामनयोरपि ग्रहणे “अकः सवर्णे” इत्यनेनैव सिद्धे वार्त्तिकस्यैव वैयर्थ्यापत्तेः ॥