प्रादयः इति योगविभागस्तु क्रियायोगाभावेऽपि निपातत्वाय । एतत्सिद्धमेवोपसर्गप्रतिरूपकस्य निपातत्वमुक्तं चाद्यन्तर्गणसूत्रेणेति दिक् ।
‘प्रपरे’त्यादावनुकार्यानुकरणयोरभेदविवक्षया सुबनुत्पत्ति: ।
यत्र तु रुत्वस्य सिद्धत्वं, यथा- षत्वणत्वयोः - तद्विषयोपसर्गत्वप्रतिषेधपरे- <!दुरः षत्वणत्वयो:!> इति वार्तिके कृतरेफसान्तस्यापि ग्रहणम् । षत्वणत्वयोरित्यस्य तद्विधायकशास्त्रयोरित्यर्थात् । अत एव सुषामादिषु दुःष्ठुशब्दपाठ: सार्थकः, स ‘अपदुःसुषुस्थ: कुः’ इति दुस्-पूर्वकस्थाधातोः कुप्रत्यये साधुः । अन्यथा दुस्पूर्वकात्कुप्रत्यये उपसर्गाद् [[8.4.14]] इत्येव षत्वे सिद्धे तद्वैयर्थ्यं स्पष्टमेव । न चास्य रूढत्वेनावयवार्थाभावादुपसर्गत्वाभावः, अत्यन्तरूढेषु प्रतिष्ठानिष्ठादिषु षत्वानापत्तेः । अर्थवत्त्वारोपेण चेत्- प्रकृतेऽपि । दुस: पाठस्तु ‘दुरयते’ इत्यादौ रुत्वासिद्ध्या लत्वाभावार्थ इति दिक् ।