असत्त्वे इति पर्युदासो लाघवादित्याह अद्रव्य इति । विशेष्यतया द्रव्यभिन्नार्था इत्यर्थः । तेन क्रियाविशिष्टद्रव्यवाचिनां विप्रादिघटकप्रादीनां न । चादयः किम् ? स्वरादिपठितानामसत्त्ववृत्तित्वे आद्युदात्तत्वं मा भूदिति ।