प्राग्रीश्वरान्निपाताःअधिरीश्वरे [[1.4.97]] इत्यभिव्याप्य प्राङ्निपाता इत्यधिकारः । प्राङ्निपाता: सन्तो गत्यादिसञ्ज्ञका इत्यर्थः । तेन ताभिः समावेशः, अधिरीश्वरे [[1.4.97]], विभाषा कृञि [[1.4.98]] इत्यत्र निपातपदसम्बन्धश्च सिद्धः । एषां द्योतकत्वं वाचकत्वञ्च यथाकार्यं, यथाप्रयोगं बोद्ध्यमित्यन्यत्र विस्तरः ।