सुप्तिङन्तं पदम् । सुबिति सुपः पकारेण प्रत्याहारो व्याख्यानात् । यद्यपि <ऽप्रत्ययग्रहणे तदन्तग्रहणम्ऽ> इत्युक्तेः शब्दरूपं विशेष्यमादाय तदन्तग्रहणं सिद्धम् । प्रत्ययेन स्वप्रकृत्यवयवकसमुदायस्याक्षेपात्तद्विशेषणत्वेन तदन्तविधिरिति न युक्तम् । ‘इयान्’ इत्यादौ तस्य तादृशसमुदायेन व्यभिचारेणाक्षेपासम्भवात् । आक्षिप्तस्य शाब्देऽनन्वयाच्च । तथापि संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणाभाव ज्ञापनार्थमन्तग्रहणम् । तेन घसञ्ज्ञा तरप्तमपोरेव न तदन्तस्य । तेन
न च ज्ञापितेऽपि व्यर्थम्, पदप्रदेशे प्रत्ययग्रहणे तदन्तग्रहणेनैव सिद्धेरिति वाच्यम् । पदत्वस्य प्रकृतिसाधारणतया पदग्रहणे प्रत्ययग्रहणस्यैवाभावात् । यस्यात्प्रत्यय विधिरित्याद्यनुवृत्तेः पदसमुदायस्य न पदत्वम् । ‘इयान्’ इत्यादौ यस्मात्प्रत्ययविधिस्तदादितद्धितान्तत्वं व्यपदेशिवद्भावेन बोद्ध्यम् । तेनाशास्त्रीयस्याप्येकाच्त्वादेरतिदेशात् । विशिष्टनिष्ठव्यवहारनिमित्त कार्याणि असहायेऽपि कर्त्तव्यानीति तदर्थात् । अत एवेयन्मात्रमित्यादौ वत्त्वन्तात्स्वार्थे इति मात्रसिद्धिः । ‘हरिषु’ इत्यादौ सोऽस्तु नैवं पदत्वम् हलि सर्वेषाम् [[8.3.22]] इति निर्देशेन ससहाये तदप्रवृत्तेः ।