इति सञ्ज्ञेति । प्रथमाध्यायस्थानां सन्धिकार्योपयोगिनीनां सञ्ज्ञानां प्रकरणमिति समाप्तमित्यर्थः । तेनाऽऽम्रेडित - प्रगृह्य- भसञ्ज्ञा लोपसंज्ञाद्यनुपन्यासेऽपि न क्षति । अ अ [[8.4.68]] इत्याद्युपन्यासस्तु प्रासङ्गिकः ॥ इति लघुशब्देन्दुशेखरे संज्ञाप्रकरणम् ॥