विरामोऽवसानम् ।शब्दानुशासनप्रस्तावादाह वर्णानामिति । उच्चारणाभाव इत्यर्थः । स च व्याख्यानात्किञ्चिद्वर्णोच्चारणानन्तरकालिक एव गृह्यते । प्रदेशाः वावसाने [[8.4.56]] । अभावस्यापि बुद्धिकृतं पौर्वापर्यं वर्णवत् ।