परशब्दो नान्यार्थोऽन्यत्वस्याव्यभिचरितत्वादत आह — अतिशयित इति । स्व भावसिद्धार्धमात्रातिरिक्तकालव्यवायेन रहितः । तेन तद्व्यवायेन वाक्योच्चारणे सञ्ज्ञा न । सन्निकर्षश्च प्रायः परेण, क्वचित्पूर्वेणापि । अत एवावसानकार्याणां संहिताधिकारे पाठः । न चावसानसञ्ज्ञया परसत्त्वे सावकाशायाः संहितासञ्ज्ञाया: <ऽसत्यपि सम्भवे बाधनं भवतिऽ> इति न्यायेन विषयभेदेऽपि बाध: स्यादिति तद सङ्गतिरेवेति वाच्यम् । तदधिकारे तेषां पाठेनाऽऽकडारसूत्रस्य स्वशास्त्रीयसंज्ञा मात्रविषयत्वकल्पनात् । एते तु न तथा, लोकेऽपि सत्त्वात् । तदुक्तं वार्त्तिककृता <!संहितावसानयोर्लोकविदितत्वात्!> इति । न चावसानकार्येषु संहिताधिकारासम्बन्ध एवास्तु, अग्रे च मण्डूकप्लुतिरस्त्विति वाच्यम् । सत्यामुपपत्तौ मण्डूकानुवृत्तेरयुक्तत्वात् । ध्वनितञ्चेदं विसर्जनीयस्य सः [[8.3.34]] इति सूत्रे भाष्ये । सन्निकर्षः सामीप्यम् ।