तस्य लोपः । उपदेशेऽजनुनासिक इत् [[१.३.२]] इत्यत इदित्यनुवृत्त्या विभक्तिविपरिणामेन च सिद्धौ तस्य ग्रहणं सर्वलोपार्थम् । तेन ञिटुडूनामन्त्यस्य लोपो न । “नानर्थके” (<ऽ नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे ऽ> <{PB१०५}>) इति परिभाषा तु भाष्ये प्रत्याख्यातैवेति दिक् । न भवतीति । फलाभावादिति भावः ॥