भाष्येऽप्यन्योन्याश्रयमाशङ्कय — हलन्त्यमित्सञ्ज्ञं भवति, लकारश्चेद्भवतीति वक्तव्यमि इत्युक्त्वा — एकशेषनिर्देशाद्वा सिद्धम्, हल् च हल् च हल्— हलन्त्यमित् इत्युक्तम् । तस्यायं भावः— कृतैकशेषेण हल्पदेन सम्बन्धसामान्यषष्ठ्या — समासोऽन्त्यशब्दस्य च द्वन्द्वान्ते श्रूयमाणस्येवोभयत्रान्वयः, एवञ्च हल्सूत्रान्त्यं हल्रूपान्त्यञ्चेति बोध:, अन्त्ये— ‘राहोः शिर’ इतिवत्षष्ठी इति । अत्रोच्चारयितुरेकशेषनिर्देशो बोद्धस्त्वावृत्त्या बोधः । हसमीपो लकार इत्, हल्रूपान्त्यञ्च इति कैयटोक्तव्याख्यायान्तु— हल् इत्सञ्जं भवति, हलन्त्यञ्चेद इति वदेदूह्यम् ।

नन्वेवमपि न विभक्तौ [[1.3.4]] इति विभक्तिपदबोद्ध्यसुप्तिङ्बोधो हलन्त्यम् [[1.3.3]] इति वाक्यार्थबोधोत्तरं, तद्बोधश्चापवादवाक्यार्थबोधोत्तरमित्यन्योन्याश्रयस्तदवस्थ एवेति चेन्न, अपवादवाक्यार्थबोधात्पूर्वं पदपदार्थोपस्थितावुत्सर्गवाक्यार्थबोधे प्रतिबन्धकाभावात् । न ह्यभावज्ञाने प्रतियोगिज्ञानस्येव प्रतियोगिज्ञानेऽभावज्ञानस्य कारणता कस्यापि सम्मता, प्रतियोगिज्ञानं विना निषेधवाक्यार्थासम्भवाच्च ।

पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः इत्यस्य त्वयं भाव: — लक्षणैकचक्षुष्कस्य उद्देश्यतावच्छेदकावच्छिन्ने सर्वत्रोत्सर्ग कृतसंस्कार बुद्धावुत्सर्गापवादयोर्विषयव्यवस्थानापत्त्या— भुक्तवन्तम्प्रति मा भुक्था इति वाक्यस्येव अपवादशास्त्रवैयर्थ्यापत्त्या चापवादशास्त्रपर्यालोचनेन तद्विषयलक्ष्यसंस्कारं निर्णीय तदविषयं तत्तल्लक्ष्यं तत्तद्विषयवाक्योपप्लवद्वारोत्सर्गेण संस्करोति, अन्यथा विकल्पापत्ति: — इति ।

यद्यपि भुक्तवन्तं प्रति इति न्यायो लुगादिना जातनिवृत्ते र्व्यभिचरितस्तथापि तत्राप्यनुत्पत्तिरेवेति न दोषः, न्यायानङ्गीकारेऽपि विकल्पापत्ते: सत्त्वाच्च। अभिनिविशन्ते इत्यस्य — बुद्ध्यारूढा भवन्तीत्यर्थः । लक्ष्यैकचक्षुष्कस्तु — तत्तच्छास्त्रपर्यालोचनं विनापि अपवादविषयं परित्यज्योत्सर्गेण लक्ष्यसंस्कारञ्जा नीते, तस्यापि शास्त्रप्रक्रियास्मरणपूर्वकप्रयोग एव धर्मोत्पत्तेः । तदुक्तम्— प्रकल्प्य चापवादविषयं तत उत्सर्गः प्रवर्तते इति । प्रकल्प्य = परित्यज्य ।

यत्तु — प्रकल्प्य च इत्यस्यायमर्थः यथा न सम्प्रसारणे [[6.1.37]] इति वचनात्परस्य यणः पूर्वं सम्प्रसारणं, पूर्वस्य तु तन्निमित्तः प्रतिषेधः इति — अभ्यस्तसञ्ज्ञासूत्रे कैयटः, तन्न; न सम्प्रसारणे [[6.1.37]] इति सूत्रस्थभाष्यविरोधात् । तत्र हि एतदेव ज्ञापयति परस्य — न पूर्वस्येति, यद्वा सम्प्रसारणाश्रयस्य प्रतिषेधः इत्याद्युक्तम् । न हि न्यायेन सिद्धे एवमुक्तिरुचिता, तस्मान्न्यायस्य मदुक्त एव विषय इति बोद्ध्यम् । यदपि — अपवादवाक्यार्थं विना नोत्सर्गवाक्यार्थ इति तदर्थः इति, तदपि न उक्तयुक्तेः । न विभक्तौ तुस्माः [[1.3.4]] इति शास्त्रस्थतुस्मपदार्थज्ञानमात्रेण पादीनामेव तद्विषयत्वाभावबुद्ध्या तेषु हलन्त्यसूत्रप्रवृत्त्या सुप्तिङ्रूपविभक्तिपदार्थज्ञानं सुलभमिति दिक् । अत्राप्युपदेश इति सम्बद्ध्यते, तद्बललभ्यार्थमाह — सूत्रे इति