स्वरितेनाधिकारः [[1.3.11]] । इत्थम्भूतलक्षणे तृतीया । स्वरितत्वज्ञाप्योऽधिकारो विनियोग इत्यर्थः । स्वरितत्वञ्चेदं दोषविशेषरूपमज्झल्साधारणं स्व रूपमधिक्रियमाणपदघटकाज्निष्ठं वा । तच्चानुनासिक्यवत्प्रतिज्ञागम्यम् । विनियोगश्च प्रायेणोत्तरत्रोपस्थितिः, क्वचित्पूर्वत्रापि । कियद् दूरमधिकार इत्यत्रासति गमके व्याख्यानमेव शरणम् ।
किञ्च स्वरितेनाधिकारगतिः । तेन गोस्त्रियो [[1.2.48]] इत्यादौ ख्यधिकारस्थप्रत्ययग्रहणमित्याद्याकरादवसेयम् एतेन - व्याख्यानादेव निवृत्तिवदनुवृत्तिरपि भविष्यति, आकाङ्क्षायान्तु सत्यामश्रुतकल्पनाया अन्या व्यत्वाच्छ्रुतापेक्षणस्य न्याय्यत्वाच्च किं सूत्रेण इत्यपास्तम् । स्पष्टं चेदं भाष्ये ।
परनित्येति । परं विप्रतिषेधसूत्राद् बलवत् । नित्यं कृताकृतप्रसङ्गि, तद्विपरीत मनित्यम् । तत्राक्लृप्ताभावकस्या भावकल्पनापेक्षया क्लृप्ताभावकस्यैव तत्कल्पनं युक्तमिति तस्य बलवत्त्वे बीजम् । अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्येऽन्तर्भूतान्यङ्गानि निमित्तानि यस्य तदन्तरङ्गम् । तदीयनिमित्तसमुदायाद्बहिर्भूताङ्गकं बहिरङ्गम् । तस्य बलवत्त्वे बीजमाह असिद्धमिति । इयञ्च वाह ऊठ् [[6.2.132]] इति सूत्रेण ज्ञापिता ।
यद्यपि प्रत्यङ्गवर्त्ती लोको दृश्यते । मनुष्योऽयं प्रातरुत्थाय प्रथमं शरीर कार्याणि करोति, ततः सुहृदां, ततः सम्बन्धिनाम् इति न्यायमूलकत्वमस्या अचः परस्मिन्.. [[1.1.57]] इति भाष्ये उक्तं, तथापि तेन न्यायेन युगपत्प्राप्तिविषयतैव स्यात् । ज्ञापकेन तु सर्वविषयता बोध्यते इति वाह ऊठ् [[6.2.132]] इति सूत्रे कैयटे स्पष्टम्। अन्यथा वाहः सम्प्रसारणे पूर्वरूपे च कृते प्रयाश्रये गुणे वृद्धिरेचि [[6.9.88]] इति वृद्धौ प्रष्ठौह इत्यादिसिद्धावूठ्विधानं व्यर्थं स्यात् । नाजानन्तर्यपरिभाषा तु नास्त्येवेति न अयजे इन्द्रम् इत्यादौ दोष इति परिभाषेन्दुशेखरे विस्तरः । अपवादस्तु वचनप्रामाण्याद् बलवान् । अकृतेति । न कृतो विशिष्ट ऊहस्तकों निमित्तविनाशेऽपि कार्यस्थितिरूपः, यथा दण्डविनाशेऽपि घटस्थितिः, स यैस्ते इत्यर्थस्तदाह - निमित्तमित्यादि । तत्प्रयुक्तं कार्यजातमपि न कुर्वन्ति नोच्चारयन्तीत्यर्थ इति कैयटादयः ।
अन्ये तु - व्यूहोऽन्तरङ्गशास्त्रं बहिरङ्गापोहनरूपत्वात् तन्निमित्तविनाशं दृष्ट्वा पूर्वमपि न कुर्वन्ति इत्यर्थ इत्याहुः । इयं परिभाषा निष्फला निर्मूलेति परिभाषेन्दुशेखरे निरूपितम् । इति परिभाषाप्रकरणम् ।