ह्रस्वग्रहणमिति । ह्रस्वपदघटितग्रहणमित्यर्थः । अतन्त्रमिति । स्वशास्त्रसङ्केतितरूपेणाबोधकमित्यर्थः । किन्त्वर्धमात्रारूपार्थबोधकमिति भावः । एवञ्च — दीर्घादिष्वप्यर्धमात्रैवोदात्ता । इत आरभ्य नवसूत्र्या अ अ [[8.4.68]] इत्यतः प्रागुत्कर्षेणास्य त्रिपाद्यामपि प्रवृत्तिः । सर्वञ्चेदं भाष्ये स्पष्टम् । अर्धमुदात्तम्इति वृत्तिस्तु — सत्या सत्यभामेतिवद् व्याख्येया । उत्तरार्धमित्यस्य चार्धमात्रातोऽवशिष्ट उत्तरो भाग इत्यर्थः । वेदे तु यथाप्रयोगं प्रातिशाख्यादस्माच्च व्यवस्था ।
तस्य चेति । अनुदात्तस्येत्यर्थः । उदात्तेति । उदात्तस्वरितयोः परत्वे सतीत्यर्थः । तयोः परत्वञ्चोपस्थितानुदात्तोपेक्षयैव । अन्यत्र — उदात्तस्वरितयोः परत्वाभावे । प्रातिशाख्ये इति । लोके त्वनुदात्त एवेति भावः ।
ह्रस्वस्वरितमुदाहरति — क्वेति । किमोऽत् ([[5.3.12]]) इत्यतः , क्वाति [[7.2.105]] इति कादेशे तित्स्वरितम् [[6.1.185]] इति स्वरितः । दीर्घं तमुदाहरति — रथानामिति । येऽरा इति । स्वरितो वाऽनुदात्ते पदादौ [[8.2.6]] इत्येकारः स्वरितः । नोदात्तस्वरितोदयम् [[8.4.67]] इति निषेधस्तु - उदात्तादनुदात्तस्य स्वरित [[8.4.66]] इत्यस्यैवानन्तरस्येति न्यायात् । स्वरितपरमुदाहरति — शतचक्रमिति । अहेरित्यर्थेऽह्यः । वृत्रस्येत्यर्थः । <!छन्दसि वा वचनं प्राङ् णौ चङ्युपधायाः!> इति वचनाद् गुणाभावः । उदात्तस्वरितयो: [[8.2.4]] इति स्वरितः । उदात्तयणो हल्पूर्वाद् [[6.1.174]] इति तु न, छान्दसत्वात् । यच्छब्दः फिषोऽन्त (फिट्-१.१) इत्यन्तोदात्तस्तदेकादेशश्च वा स्वरितः । स इति । उदात्तादिह्रस्वादिसञ्ज्ञक इत्यर्थः ।