एकस्मिन्नच्युदात्तानुदात्तयोर्धर्मिणोर्मेलनविरोधादाह — वर्णधर्माविति । बाहुलकादधिकरणे घञ् । अर्श आद्यजित्यन्ये ([[5.2.127]]) । इयं त्रिसूत्री स्पष्टार्था, लोकवेदयोरुदात्तादिव्यवहारस्य प्रसिद्धत्वात् ।