अर्वाङिति । अभिमुखवाच्यव्युत्पन्नं फिषोऽन्त (फिट्-१.१)इत्यन्तोदात्तम् । आद्यस्य शेषनिघातेनाऽनुदात्तत्वम् । अर्वन्तमञ्चतीत्यर्थे कृदुत्तरपदप्रकृतिस्वरेण वाऽन्तोदात्तत्वम् ।