उच्चैरुदात्तः । नात्र श्रुतिकृतमुच्चैस्त्वमुपांशुप्रयोगेऽव्याप्तेः । श्रुतिप्रकर्षस्याऽव्यवस्थितत्वाच्च । किन्तु स्थानकृतम् । ‘उच्चैरि’त्यधिकरणशक्तिप्रधानम् । अधिकरणत्वञ्चोच्चारणं प्रति । तच्च ताल्वादीनां सभागत्वे एवेत्याशयेनाह — ताल्वादीति । इदं प्राचामनुरोधेन । वर्णसमाम्नायेऽकारस्य प्राथम्यात्कण्ठादीति वक्तुमुचितम्, एवमन्यत्रापि बोद्ध्यम् । प्रयत्नप्रेरितो वायुर्यदोर्ध्वभागे प्रतिहतोऽचं व्यञ्जयति तदा स उदात्त इति भावः । अजिति । ‘ऊकाल’ इत्यतस्तदनुवर्तते । उदात्तत्वादीनामज्धर्मताया एव लोकप्रसिद्धत्वेन हल्स्वरप्राप्तौ व्यञ्जनस्याविद्यमानत्वाच्चेदं स्वरूपकथनपरं बोद्ध्यम् ।

आये इति । यच्छब्दः फिषोऽन्त (फिट्-१.१) इत्यन्तोदात्तः, जस्सुप्त्वादनुदात्तः, एकादेश उदात्तेन [[8.2.5]] इत्येकार उदात्तः ।