प्लुतशब्दैरिति । ऊकाल.. [[1.2.27]] इति सूत्राद्ध्रस्वदीर्घप्लुत इति अजिति चानुवर्तते। ह्रस्वेत्यादिपदञ्च तृतीयया विपरिणतमिति भावः । तेन दिव उत् [[6.1.131]] , अष्टन आ विभक्तौ [[7.2.84]] इत्यादावेतदनुपस्थितिः । शेषं प्राग्वत् ।