तुल्यास्यप्रयत्नं सवर्णम् । तुल्यावास्यप्रयत्नौ यस्येत्यर्थः । आस्ये भवमास्यं, व्याख्यानात् । तच्च - वर्णोपयोगित्वात्स्थानमेव, प्रयत्नस्य पृथगुपादानात् । प्रकृष्टो यत्नः - आभ्यन्तरः । तस्य वर्णोत्पत्त्यव्यवहितप्राग्भावित्वरूपप्रकर्षत्वात् । जनकत्वं षष्ठ्यर्थः । तत्तत्कार्यगतभेदं स्थानेष्वारोप्य भेदघटिततुल्यत्वस्य निर्वाहः । वस्तुतः सादृश्यं न भेदघटितम् इति भाष्यसम्मतमिति न कश्चिद्दोषः । स्पष्टञ्चेदं भाष्ये । तदाह - ताल्वादीति । शिक्षायाङ्कण्ठादीनाङ्कण्ठत्वादिनैव स्थानतोक्त्या तद्रूपेणैवाऽऽस्यशब्देन ग्रहणमिति तद्भागभेदमादाय नोदात्तादिषु सावर्ण्यभङ्ग इति बोद्ध्यम् । यस्यैतद्द्वयं येन यदीयेनैतद्द्वयेन तुल्यमित्यर्थः ।
यजुष्येकेषाम् इति निर्देशाद्यावदास्यभवतुल्यत्वं ग्राह्यम्। अत एवैचो: सावर्ण्यमाशङ्क्य— नैतौ तुल्यस्थानौ इति भाष्ये समाहितम् । अत एव वलयोर्न सावर्ण्यम् । तेन तद्वानासाम् इत्यादौ तोर्लि [[8.4.60]] इति न । अत एव प्रयत्नशब्देन यत्नमात्रग्रहणम् इति पक्षे यत्किञ्चित्प्रयत्नभेदे यत्किञ्चित्प्रयत्नैक्यमादाय सवर्णसञ्ज्ञेत्यर्थो झरो झरि सवर्णे [[8.4.65]] इति सवर्णग्रहणेन ज्ञापकेन साधितो भाष्ये । तेन स्थानांशे यावत्स्थानसाम्ये इत्येव स्वारसिकोऽर्थ इति प्रतीयते ।
न च यावदास्यभवतुल्यत्वविवक्षणे प्रयत्नग्रहणं व्यर्थम्, प्रयत्नस्याप्यास्यभवत्वादिति वाच्यं, ह्रस्वदीर्घयोः सावर्ण्यानापत्तेः, तयोर्जनकानामास्यभवानां वायुसंयोगानामतुल्यत्वात् । तस्मादास्यभवानाङ्कण्ठादीनामेव ग्रहणमिति बोधनाय तत्सार्थक्यात् ।
आस्येति किम् ? तर्प्ता। झरो झरि सवर्णे [[8.4.65]] इति लोपो मा भूत्। प्रयत्नेति किम् ? वाक्श्चोतति। प्रेति किम् ? शचयोः श्वासाघोषविवाराख्यबाह्यप्रयत्नसाम्येन तत्रैव दोषात् ।
कस्य किं स्थानमित्याशङ्कायामाह- अकुहेति । यद्यपि सर्ववर्णोच्चारणे कण्ठव्यापार आवश्यकस्तथापि चकाराद्युच्चारणे ताल्वादिव्यापारोऽपि तथा, अकारादीनामुच्चारणे तु नेति भावः कचयोस्तु न सावर्ण्यम्, यावत्स्थानसाम्याभावात्, भिन्नस्थानकथनवैयर्थ्यापत्तेश्च । अत्र कण्ठपदं कण्ठस्थानतत्समीपजिह्वामूलस्थानोभयपरं, तेन कण्ठ्यावहौ, जिह्वामूले तु कुः प्रोक्तः इति शिक्षया न विरोधः । जिह्वामूलीयपदस्य च- वर्णविशेषे रूढिरिति न व्यवहारातिप्रसङ्गः । अत एवायोगवाहेषु जिह्वामूलीयगणनं भाष्ये ।
तत्तद्वर्णोत्पत्तेः प्राक्तत्तत्स्थानादौ जिह्वास्पर्शाद्यनुभवेन तत्तद्वर्णानां तत्तत् स्थानत्वनिर्णयेऽप्यकुहेत्यादिकथनं साधारणधर्मबोधनायानुवादकं, न त्वेतदेव कण्ठादिस्थानविधायकमिति भ्रमितव्यम् । विसर्जनीयपदेनात्र साहचर्यादकाराश्रयस्य ग्रहणम् । अत एव अयोगवाहा विज्ञेया आश्रयस्थानभागिनः इति शिक्षया न विरोध: । दन्ता इति । दन्तसंयुक्तदेशा इत्यर्थः । अतो भग्नदन्तस्याप्युच्चारणं भवत्येव । उश्च पश्च मायेते अनेन, तत्र भव इति योगेनोपध्मानीयस्यौष्ठ्य त्वमित्याह - उपपेति। रूढत्वाच्च न व्यवहारातिप्रसङ्गः । नासिका चेति । चेन स्वस्ववर्गानुकूलं ताल्वादि गृह्यते। अत एवैषां प्रातिशाख्ये नासिकायां भव इत्यर्थकनासिक्यशब्देन व्यवहारः ।
यत्तु - अनुस्वारयमानां च नासिकास्थानमिष्यते । (पा.शि. २२) इति शिक्षोक्तेरेषां नासिकाकरणम् । किञ्च - स्थानत्वे कङयो: सावर्ण्यानापत्तिः, यावत्स्थानैक्याभावात् । यत्किञ्चित्स्थानैक्येन तत्त्वे तु - ञमामपि परस्परं सावर्ण्यापत्तिरिति, तन्न । कण्ठादीनामपि करणत्वस्यैव अस्यन्त्यनेन वर्णान् इति भाष्यात्प्रतीतेः । स्थानत्वव्यवहारस्तु वर्णाभिव्यक्तिजनकताल्वादौ वर्णजनकवायुसंयोगाधारे वर्णाधारत्वाऽऽरोपेण तत्तत्स्थानजिह्वाग्रादिसम्बन्धेन वर्णोत्पत्त्या जिह्वाग्रादौ, तत्सम्बन्धजनकप्रयत्नविशेषे स्पृष्टतादौ च करणत्वव्यवहारः । वर्णाभिव्यक्त्यनन्तरभावी सावर्ण्यानुपयुक्त आन्तरतम्यपरीक्षोपयुक्तश्च कण्ठविवरादिनिष्ठविकासादेरास्यबहिर्देशावच्छिन्नकार्यस्य जनको यत्नो गुणशब्देनोच्यते । अकारादिनिष्ठानुनासिक्यस्य भेदकत्वाद्गुणस्येत्यादौ गुणत्वेन व्यवहारस्तु कण्ठाद्यवच्छिन्नवायुसंयोगेनोत्पन्नेषु नासावच्छिन्नवायुसंयोगेन तद्रूपधर्मोत्पत्त्या । एवञ्च नासिकायास्तत्र गुणजनकत्वादनुनासिकाकारादीनां नासिकास्थानं नोक्तं मूले ।
एकोऽयमात्मोदकन्नाम गुणभेदादन्यत्वं तस्य भवति, अन्यदिदं शीतमन्यदिदमुष्णम् इति दृष्टान्तपरभाष्येण तथैव प्रतीतेः । आत्माऽत्र द्रव्यम् । उदात्तत्वादीनां गुणत्वव्यवहारस्तु सावर्ण्यानुपयुक्तत्वाऽऽन्तरतम्यपरीक्षोपयोगित्वरूपसादृश्येनेति बोद्ध्यम् । ङादीनान्तु तद्गुणरहितस्वरूपानुपलम्भेन उभयावच्छेदेन वायुसंयोगोत्तरमेव स्वरूपोत्पत्त्या विनिगमनाविरहेणोभयोः स्थानत्वम् । अनुस्वारयमानाञ्चे इति शिक्षायां चेन ङादीनामपि सङ्ग्रह इति युक्तम् । अत एव कण्ठ्योऽकार इत्याद्युक्त्वा नासिक्यान्नासिक्ययमानुस्वारानिति स्थानान् इत्युक्तं प्रातिशाख्ये। नासिक्या:- ङञणनमा इति तद्व्याख्यातारः ।
कङयो: सावर्ण्यन्तु भवत्येव । <!आस्ये तुल्यदेशप्रयत्नम्!> इति वार्तिके — किमास्योपादाने प्रयोजनम् इति प्रश्ने प्रयत्नविशेषणमास्योपादानम् इत्युक्त्वा— तद्व्यावर्त्यत्वेन बाह्यप्रयत्नान् प्रदर्श्य — यथा तृतीयास्तथा पञ्चमा आनुनासिक्यमेषामधिको गुण इति भाष्येण तस्य बाह्यप्रयत्नत्वोक्त्याऽत्र सूत्रे नासिकाया आस्यशब्देन, तत्रत्यप्रयत्नस्य च प्रयत्नशब्देनाग्रहणबोधनात् । नासिका आस्यबाह्या इति वदतां मते तद्ग्रहणाभावाच्च । अत एव बाह्यप्रयत्नानुपक्रम्य — अमोऽनुनासिका न ह्रौ नादिनो हझषः स्मृताः । ईषन्नादा यणश्चैव श्वासिनस्तु खफादयः ॥ ईषच्छ्वासांश्चरो विद्यात् … (पा.शि. ३९, ४०) इत्युक्तं शिक्षायाम् । नादेति संवारघोषयोरुपलक्षणं श्वासेति विवाराघोषयोः । ह्रावित्युपलक्षणम् — ऐच: सर्वस्य प्लुतलृकारस्य च अनुनासिकस्यादर्शनादित्यलम् ।
एदैतोरित्यादौ लोकानुभवसिद्धार्थानुवादके तपरशास्त्राप्रवृत्त्या प्लुतानामपि तत्स्थानत्वं बोध्यम् । तथा च पाणिनीयशिक्षा — कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू । स्युर्मूर्धन्या ऋटुरषा दन्त्या लृतुलसाः स्मृताः ॥ जिह्वामूले तु कुः प्रोक्तो दन्त्योष्ठ्यो वः स्मृतो बुधैः । ए ऐ तु कण्ठ्यातालव्यावो औ कण्ठोष्ठजौ स्मृतौ ॥ (पा.शि. 18), अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलञ्च दन्ताश्च नासिकोष्ठौ च तालु च ॥ (पा.शि. 13), हकारं पञ्चमैर्युक्तमन्तः स्थाभिश्च संयुतम् । उरस्यं तं विजानीयात्कण्ठ्यमाहुरसंयुतम् ॥ (पा.शि. 16) इति ।
यत्तु — दन्तोष्ठादि, समुदितं स्थानम् इति तन्न। शिक्षायां दन्त्योष्ठ्यः कण्ठ्यतालव्यौइत्यादौ तत्र भव [[4.3.53]] इत्यधिकारविहितयतः प्रत्येकमनुत्पत्त्यापत्तेः । दन्तोष्ठ्यम् इत्यादि त्वसङ्गतमेव, स्वाङ्गसमुदायस्य स्वाङ्गत्वाभाववच्छरीरावयवसमुदायस्य शरीरावयवत्वाभावात् । एतेन — दन्तोष्ठरूपमतिरिक्तं स्थानम् इत्यपास्तम् । अष्टौ स्थानानि इति प्रतिज्ञाविरोधाच्चेति दिक् ।
सूत्रे प्रशब्देन विलक्षणार्थबोधेऽपि लोके यत्नप्रयत्नयोः पर्यायतेति ध्वनयन्नाह - प्रयत्नो द्विधेति । क्वचिद्यत्न इत्येव पाठः । चतुर्धेति । यत्तु — स्वराणामूष्मणाञ्चैव विवृतं करणं स्मृतम् । तेभ्योऽपिविवृतावेङौ ताभ्यामैचौ तथैव च ॥ (पा.शि.21) इति शिक्षावाक्याद्विवृततरविवृततमयोः प्रतीत्या नाज्झलौ [[1.1.10]] इति सूत्रभाष्यादूष्मणामीषद्विवृतत्वस्य च प्रतीत्या चतुर्धेत्यसङ्गतमिति, तन्न । नाज्झलौ [[1.1.10]] इति सूत्रेण विवृतत्वव्याप्यानामेषां सवर्णसञ्ज्ञानुपयुक्तत्वबोधनमित्याशयात् । भाष्यमते तु सन्तु सप्त प्रयत्नाः । एवञ्चैदैतोरोदौतोश्च न सावर्ण्यप्रसक्तिः, प्रयत्नभेदादिति योद्ध्यम् । नाज्झलौ [[1.1.10]] इति सूत्रमपि प्रयत्नभेदप्राप्तसावर्ण्याभावानुवादकं सत्तस्यैव बोधकम् । अत एव भाष्ये तन्न वक्तव्यमिति नोक्तम् ।
स्पृष्टादीनामाभ्यन्तरत्वं त्वोष्ठप्रभृतिकाकलकपर्यन्तरूपास्यान्तर्गततत्तत्स्थानेषु जिह्वाग्रादीनां स्पर्शेषत्स्पर्शदूरावस्थानसमीपावस्थानरूपाभ्यन्तरकार्यकारित्वाद्वर्णोत्पत्त्यव्यवहितप्राग्भावित्वाच्च । तत्र कस्यचिदुच्चारणे सम्यक्स्पर्शः कस्यचिदीषदिति शिक्षाकारोक्तिमनुभवञ्चानुसृत्य विवेक्तव्यम् । प्रयतनम् इति नपुंसके भावे ल्युट् । प्रयत्नम् इत्यपपाठः, नङन्तस्य पुंस्त्वात्। तथा च शिक्षा — स्वराणामृष्मणाञ्च इत्याद्यनन्तरम् — अचोऽस्पृष्टा यणस्त्वीषन्नेमस्पृष्टाः शलः स्मृताः । शेषाः स्पृष्टा हलः प्रोक्ताः (पा.शि. 38) इति ।
अचोऽस्पृष्टाः — स्पर्शाभावरूपविवृतत्ववन्तः ‘यणस्त्वीषदि’ त्यनेन- तेषामीषत्स्पृष्टत्वमीषद्विवृतत्वञ्च बोधितम् । नेम इत्यर्धे । तेन शलामीषद्विवृतत्वं यणपेक्षयाऽधिकविवृतत्वञ्चेति बोद्ध्यम् । अत्र शिक्षोक्तव्याप्यधर्मवतां व्यापकधर्ममादाय न सावर्ण्यमिति यणां चवर्गादिभिर्न सावर्ण्यम् । तेनाञ्चित इत्यादौ न यादिः परसवर्णः ।
विवृतमेवेति । प्रक्रियादशायां विवृतत्वम्प्रतिज्ञेयमित्यर्थः । तेन दण्डाढकादो दीर्घसिद्धि । अन्यथा संवृतस्य ह्रस्वाकारस्य विवृतेन दीर्घेण सावर्ण्याभावात्स न स्यादिति भावः दीर्घाकारस्य विवृततरत्वन्तु पाणिनिशिक्षायामनुक्तत्वान्नैतच्छा स्त्रप्रक्रियोपयोगीति दिक् । तस्य प्रयोगे संवृतत्वे मानमाह - अ अ [[8.4.68]] ।