मुखनासिकावचनोऽनुनासिकः । उच्यतेऽसौ वचनः, बाहुकात्कर्मणि ल्युट् । मुखसहिता नासिका इति विग्रहः । तया वचन इति - ‘साधनं कृते’ति समासस्ताह- मुखसहितेत्यादि । मुखेति किम् ? यमानुस्वराणामेव प्रसज्येत, एवञ्चाङोऽनुनासिक इत्यनुस्वारः स्यात् । नासिकेति किम् ? शक्तेत्यादौ अनुदात्तोपदेश [[6.4.37]] इत्यादिना कलोपो मा भूत् ।
अष्टादशेति । यद्यपीदं न व्यक्तिपक्षे, व्यक्तीनामानन्त्यात्तथाप्यष्टादशधर्मवत्त्वमकारजातीयादेरित्यर्थः । ह्रस्वत्वादीनां तत्तत्समानाधिकरणोदात्तत्वानुनासिकत्वादीनाञ्च भेदमाश्रित्येदम्बोद्ध्यम् । एवमग्रेऽपि ।
ऌवर्णस्येति । विवृतस्येत्यर्थः । तेन ऌति ऌ वा इति विधेयस्येषत्स्पृष्टस्य दीर्घत्वेऽपि न क्षतिः । दीर्घाभावादिति । अत एव तुल्यास्यसूत्रे भाष्ये ऌति सवर्णे इत्यनेन पक्षे द्विलकारकाभावे अकः सवर्णे [[6.1.101]] इति दीर्घत्वे होतॄकार इति ॠकारघटितप्रयोगः सङ्गच्छते ।
ह्रस्वाभावादिति । इदम् एओङ् इत्यादौ भाष्ये स्पष्टम् । गानरोदनादौ चतुर्मात्रार्धमात्रादीनामुपलम्भेऽपि शास्त्रीयकार्ये उपयोगाभावाल्लोके प्रयोगेष्वप्रयोगाच्च नोक्ताः । अत एवानुदात्ततरस्यानुक्तिः । एकश्रुतेः स्वरान्तरत्वे इदमुपलक्षणं - तस्या लोकेऽपि सत्त्वात् ।