येन विधिस्तदन्तस्य । येनेति करणे तृतीया विधिरिति भावे किः । कर्मात्र विधेयम्, कर्त्ता चाचार्य: प्रसिद्धत्वाल्लभ्यत एव । यत्तु करणं कर्त्तृपरतन्त्रमिति तृतीयया पारतन्त्र्यं लक्ष्यते, तच्च शब्दानां विशेषणत्वेनेति विशेषणमिति लब्धमिति, तन्न । सुब्विभक्तौ न लक्षणेत्यस्य सर्वसम्मतत्वात् । किं बहुना, येषां प्रत्ययानामन्येषां वा शब्दानामर्थे विधानं कृतं शास्त्रेण तेषामन्यत्रार्थे तदर्थे चान्येषां लक्षणयाऽपि साधुत्वाभावस्य प्रत्ययः [[3.1.1]] पुंयोगात् [[4.1.48]] इत्यादिभाष्यतो लाभात् । करणस्य व्यापारवत्त्वनियमादन्येषाञ्च व्यापाराभावाद्विशेषणमेवात्र करण तृतीयान्तेनोच्यते । तस्य चेतरव्यावृत्तिकरणमेव व्यापारः; तदुक्तं भाष्ये— येनेति करणे एषा तृतीयाऽन्येन चान्यस्य विधिर्भवति । यथा चैत्रस्य सङ्ग्रामं हस्त्यश्वादिभिर्विधत्ते । एवम् अचो यत् [[3.1.97]] इति अचा धातोर्यतं विधत्ते इति । अन्येन चान्यस्येत्यनेन यस्य कार्यं यस्मिन् परतश्च तयोरकरणत्वं दर्शितम् । अन्यस्येत्यन्यस्मिन्नित्य स्याप्युपलक्षणम् । तत्र शब्दोपस्थितविशेष्यस्य तादृशं विशेषणमेव तदन्तग्राहकम् । क्वचित्सति गमकेऽतादृशं शब्दरूपं विशेष्यमादायापि तदन्तविधिः । तच्चान्तरङ्गत्वात्समानाधिकरणमेव । तत्र तदन्तविधौ सति तथा विशेषणत्वयोग्यताऽप्येतत्प्रवृत्तौ निमित्तम् । अत एव इन्हन् [[6.4.12]] इत्यादौ इनंशे तदन्तविधिः । न हि ‘इनङ्ग’मित्यन्वयो भवति । तदन्तस्येत्यस्य तदन्तशब्दस्येत्यर्थः । नन्वेवम् एरच् [[3.6.56]] इति ‘अय’ इत्यत्र न स्यादत आह— स्वस्य चेति । स्वमित्यनुवृत्तं षष्ठ्या विपरिणम्यत इति भावः । स्वं रूपमित्यस्य प्रत्याख्याने तु तस्य तदन्तस्य तु चेति पाठ्यमिति बोद्ध्यम् ।
समासप्रेति । विशेषणविशेष्यभावव्यत्यासे तात्पर्यग्राहकमिदम् । एवञ्च द्वितीया श्रित [[2.1.24]] इत्यादौ श्रितादयोऽधिकारप्राप्तसमर्थैरित्यस्य विशेष्य भूता इति न तदन्तविधिः | तस्य तत्प्रकृतिके लक्षणया सुपेत्यनेनान्वयः । तेन कृष्णं परमश्रित इत्यत्र न समासः । नडादिभ्यः फक् [[4.1.99]] इत्यादावपि नडादि विशेष्यं, प्रातिपदिकं विशेषणमिति सौत्रनाडिरित्यत्र न फक् ।
उगिदिति । तेन ‘अतिभवती’ इत्यत्रोगितश्चेति ङीप्, दाक्षिरित्यत्र अत इञ् [[4.1.95]] च सिद्धः । एवञ्चोक्तनिषेधः प्रत्ययांशे गृह्यमाणप्रातिपदिक विषये, प्रत्ययविधिविषयेण गृह्यमाणप्रातिपदिकेन तदन्तविधिर्नास्ति इत्यनेनैक वाक्यत्वलाभात् । उगिद्वर्ण इति त्वेकदेशानुवाद इति बोध्यम् । अत एव वनो र च [[4.1.7]] इत्यादौ <ऽप्रत्ययग्रहणे तदन्तग्रहणम्ऽ> इत्यस्य नायं निषेध इति दिक् ।