आदिरन्त्येन । आदिरिति किम् ? अन्त्यशब्देन पूर्वेषामाक्षेपादिगादिप्रत्याहारेऽकारादिग्रहणं मा भूदिति । एवमादिशब्देन परेषामाक्षेपादिणादिप्रत्याहारेषु आदीनां ग्रहणं मा भूदिति — अन्त्येनति । आदिः-अन्त्येनेत्युभयोपादाने तु न दोष: । लोके अयमादिरन्त्यो वेत्युक्तेऽवशिष्टमपि किञ्चिदस्तीति नियमेन प्रतीतेः । परस्मिन्सति यस्मात्पूर्वो नास्ति स आदिः, पूर्वस्मिन्सति यस्मात्परो नास्ति सोऽन्त्य इति - अकारादिग्रहणे - इकारणकारादीनामाद्यन्तत्वस्यैवानापत्तेः । अत्राद्यन्ताभ्यामवयवत्वेन बोधकाभ्यां स्वघटितः समुदाय आक्षिप्तः सञ्ज्ञी, तस्य चैकत्र लक्ष्ये प्रयोगाभावात्प्रत्येकं सञ्ज्ञित्वम् । अन्त्यस्य तु न तत्कार्यं, तस्येत्सञ्ज्ञालोपाभ्यामपहारात् । एतत् फलितकथनमेव भाष्ये मूले च- स्वस्य च रूपस्येति । स्वमित्यनुवृत्तिपरत्वेन व्याख्यानन्तु हेयमेव, अनुवृत्तौ फलाभावात् । इतेति किम् ? ञमङणनम् इति णकारादिभिः प्रत्याहारो मा भूदिति । ‘सह’ग्रहणाच्च समुदाय एव सञ्ज्ञेति समुदायादेवेक इत्यादौ विभक्त्युत्पत्तिर्नादिमात्रात् । न चान्त्यस्येत्सञ्ज्ञालोपाभ्यामपहारात् आदिरन्त्येन [[1.1.71]] इत्यसङ्गतं, सूत्रेष्वित्सञ्ज्ञायामपीगादिशब्देषु तदभावात्, ‘अन्त्येने’त्यस्येदन्त्यसदृशे नेत्यर्थात्, व्यक्तिपक्षे एवमेवौचित्यात्, सादृश्यमूलिकैव चात्र तत्त्वप्रत्यभिज्ञेत्याहुः । अचि श्नुधातु [[6.4.77]] इति सूत्रे ‘इण’ इत्येव सिद्धे ‘य्वोरि’ति निर्देशादिण्परेणैवेति लणसूत्रे भाष्ये स्पष्टम् ।
हलन्त्यम् [[1.3.3]] । अत्र पदद्वयं, समासेऽन्त्यशब्दस्य पूर्वनिपातापत्तेः । कर्मधारययोग्य पदानां समासाभावस्य सूत्रकारशैलीसिद्धत्वाच्च । यद्यपि सर्वोऽपि हल् तं तं समुदायं प्रत्यन्त्यो भवति तथाप्यन्त्यपदोपदेशपदाभ्यां प्रत्यासत्त्याऽज्ञातस्वस्वरूपज्ञाप कोच्चारणविषयसमुदायं प्रत्यन्त्य इह गृह्यते । अत एव - मकारेत्सञ्ज्ञापरित्राणार्थ: स्थमोरुकारश्चरितार्थः । समुदायोपदेश एव सर्वत्र ऋषितात्पर्येणाऽवयवानां नान्तरीयकतया तेषामज्ञातस्वस्वरूपज्ञापकत्वाभावात् ।
उपदेशेऽन्त्यमिति । तत्र विद्यमानमन्त्यमित्यर्थः तेन अइउण् इत्यादौ णादीनां हप्रत्याहारसिद्ध्युत्तरं तत्सिद्धिः, अन्यत्र त्वन्तरङ्गत्वात्प्राय उच्चारणेनाभिव्यक्तस्य तदव्यवधानेनैवेत्सञ्ज्ञा, पदार्थोपस्थितिरनुबन्धविनिर्मुक्तस्यैव, ‘उपदेशोत्तरकाला इत्सङ्गे’ति नाज्झलौ [[1.1.10]] इति सूत्रभाष्यात् । ‘धुडि’त्यादौ सानुबन्धाद्विभक्तिस्तु तेनैवानुयन्धविनिर्मुक्तोपस्थितेस्तस्यैवार्थवत्त्वात्सुलभा, इत्सञ्ज्ञाकार्यं तु यत्र सञ्ज्ञा तत्रानर्थक्यात्तदुपस्थाप्य एव । स्पष्टञ्चेदं तित्स्वरितम् [[6.1.185]] इत्यत्र कैयटे। वैयाकरणे चित्स्वरस्तु न, तस्येच्चकारसदृशत्वेऽपि तत्त्वाभावात् । विभक्त्यादिसञ्ज्ञापि- सूत्रान्तर्गतानामेवेति-तत्रैव न विभक्तावित्यादीनां प्रवृत्तिः, अत एव इदम इश् [[5.3.3]] इत्यादावण्त्वात्सवर्णग्रहणं प्राप्तमप्रत्यय इत्यनेन निषिद्ध्यते इति भाष्योक्तं सङ्गच्छते । यतु अनेकाल् [[1.1.55]] सूत्रे इशि शिद्ग्रहणाभावेऽपि शित्करणादेव सर्वादेशत्वम्इति भाष्ये उक्तं, तस्येत्सञ्ज्ञकशकारकरणाभूतपूर्वानेकाल्त्वमादाय सर्वादेशत्वमित्यर्थ इति न तद्विरोधः ।
अत्र केचित् — अनुबन्धा अनेकान्ताः = अनवयवाः, यो ह्येकान्तः स कदाचित् तत्रोपलभ्यत एव, अयन्तु न तथा, तदर्थभूते विधेये कदाप्यदर्शनात् हलन्त्यम् [[1.3.3]] इत्यत्रान्त्यशब्दः परसमीपबोधकः, चुटू [[1.3.7]] इत्यादावादिशब्दः पूर्वसमीपबोधकः, अनेकाल्शित् [[1.1.55]] इत्यादौ समीपे समीप्यमूलकावयवत्वारोपेण बहुव्रीहिः, स्पष्टञ्चेदम् उपदेशेऽज् [[1.3.2]] इति सूत्रे भाष्ये, मपर्यन्तस्य [[7.2.91]] इति सूत्रे कैयटे च । तेन डा-णलादाविशादौ च न दोषः, अत एव उपदेशेऽज् [[1.3.2]] इति सूत्रे उपदेशग्रहणं चरितार्थम् । तद्धि ‘अभ्र आँ अटित’ इत्यादा ‘वादितश्चे’तीट्प्रतिषेधाभावाय, अनेकान्तत्वे हि तत्प्राप्ति: इत्याहुः ।
परे तु — एकान्ता एव, शास्त्रे तत्रोपलंम्भादन्यत्रानुपलम्भाच्च । अनवयवो हि काकादिरेकजातीयसम्बन्धेन गृहवृक्षादिषूपलभ्यते, नैवमयम् । किञ्चानवयवत्वे ण-श-कप्रत्ययादौ णादेरित्त्वानापत्तिः, प्रत्ययादित्वाभावात् । एवमन्त्यत्वा भावादिशादेः शस्येत्त्वानापत्तिः । उक्तार्थलाक्षणिकत्वे तु लक्षणैव दोषः । किञ्च दघ्नचश्चकारवैयर्थ्यापत्त्याऽवयवत्वमेव न्याय्यम् । अत एव वुञ्छण्कठज् [[4.2.80]] इति सूत्रविहितके णित्त्वप्रयुक्तवृद्धिर्न । तस्य लोपः [[1.3.9]] इति भाष्ये- एकान्तत्वमेव - न्याय्यम् इत्युक्तेश्च । उपदेशेऽज् [[1.3.2]] इति सूत्रे उपदेशग्रहणन्तु स्पष्टार्थमेव इत्याहुः ।
सर्वत्रानुबन्धसहितनिर्देशे विधौ- गुप्तिज्किद्भ्य [[3.1.5]] इत्यादौ नकारेत्सञ्जकः सो भवति इत्यादिक्रमेण बोधः । अनुवादे सन्यत [[7.4.79]] इत्यादौ च - नकारेत्सञ्जके सशब्दे परे - इत्यादिक्रमेण बोध: । स्पष्टञ्चेदं निष्ठासञ्ज्ञासूत्रे ([[1.1.26]]) भाष्ये । अत एवाऽऽटश्चेत्या देर्नासङ्गतिः । अन्यथा यत्राऽऽट् सूत्रे, तत्र नाच्परो, नेष्यते च तत्र वृद्धिः । यत्र प्रयोगे इष्यते वृद्धिस्तत्र नाऽऽडिति तदसङ्गतिः स्पष्टैव । अन्त्यङ्किम् ? वाचालः । हल्किम् ? चिरिणोतीत्यादौ धातोरन्त्यस्य मा भूत् ।
आद्योच्चारणमिति । आद्यमुच्चारणमित्यर्थः । भावे घञिति भावः । तच्च प्रत्यासत्त्यैतच्छास्त्रप्रवर्त्तकाचार्याणामेव । आद्यत्वञ्चाज्ञातस्वस्वरूपज्ञापकत्वम् । उपस्याऽऽद्यर्थत्वाद्दिशेरुच्चारणक्रियत्वात् । अत एव एकाच उपदेशे [[7.2.10]] इति सूत्रे कैयटेनोक्तमित्सञ्ज्ञाविधौ उच्चारणवचने उपदिशिर्गृह्यत इति । आदेच इति सूत्रेऽपि येषां स्वरूपज्ञापनायापूर्वमुच्चारणं तेषामेवोपदेशव्यवहार इति । तत्र सूत्रे भाष्येऽपि, उद्देश्च प्रातिपदिकानां नोपदेश इति । प्रकृतसूत्रे भाष्येऽपि प्रत्यक्षमाख्यानमुपदेश इत्युक्तम् । तस्य चोक्त एवार्थः ।
परे तु - उपदेश इति किमर्थम् ? ‘अभ्र आँ अपः’ । कः पुनरुद्देशोपदेशयोर्विशेषः ? इति भाष्ये उक्तम् । यदि प्रत्यक्षमाख्यानमुपदेशो गुणैः प्रापणमुद्देशस्तर्हि लृटः सद्वा [[3.3.94]], निष्ठा [[3.2.102]] इति विहितानां शतृशानच्क्तक्तवतूनामवयवस्येत्सञ्ज्ञानापत्तिः । तथा ‘राजसूयसूर्य’, ‘चित्याग्निचित्ये’त्यादिनिपातनानुमितक्यबादीनां पादेरित्त्वानापत्तिः । वदः सुपि [[3.1.106]] इत्यत्रोच्चारितस्तु नैतत्सम्बन्धी । अत एव तस्यापत्यम् [[4.1.92]] अत इञ् [[4.1.95]] इति न्यासेऽन्यशब्दसम्बद्धापत्यार्थस्यानुक्तरूपशेषत्वमुक्तमाकरे । तस्मादत्र सूत्रे उपदेशशब्देनोद्देशस्यापि ग्रहणं वक्तव्यम् । एवम् ‘अभ्र आँ अपः’ इत्यादावपि प्राप्नोतीति तेषां सङ्ग्रहोऽस्य व्यावृत्तिर्येन भवति स विशेषः कः ? इति प्रश्नः । तत्सङ्ग्रहार्थमेव लोकव्यवहारेणापि तयोः सङ्कीर्णत्वमुपपाद्यैतद्व्यावृत्तये तत्सङ्ग्रहाय च - उपदेशनेऽजनुनासिक इति वक्तव्यं, किं पुनरुपदेशनम् ? शास्त्रम् - इत्युक्तं वार्तिककृता । तत्र शास्त्रपदेन प्रयोगशासनकरणभूता धातुप्रातिपदिकप्रत्ययनिपातागमादेशा हलन्त्यसूत्रे ([[1.3.3]]) व्यवसितपदार्थत्वेन भाष्ये उक्ता गृह्यन्ते । एवञ्च तत्सङ्ग्रहः ‘अभ्र आँ’ इत्येतद्व्यावृत्तिश्च सिद्धा । तस्य च वार्तिकस्य बाहुलकात्करणे घञा प्रत्याख्यानं भगवता कृतम् ।
किञ्च हलन्त्यसूत्रे ([[1.3.3]]) भावघञन्तोपदेशपदानुवृत्तौ - भवतष्ठक्छसौ [[4.2.115]] इत्यादिविहितेष्वित्सञ्ज्ञानापत्तिः, परस्य सत्त्वेन कादेरन्त्यत्वाभावात् । यदि तूपदेशे प्रत्ययत्वादिविशिष्टान्त्य इदित्यर्थः, इत्युच्यते तदोपदेश इति व्यर्थम्, अन्त्यपदसामर्थ्येनैव तल्लाभात् । अत एवात्र सूत्रे उपदेशग्रहणस्यानुबन्धा अनेकान्ता इत्यस्थितपक्षेऽभ्र आँ अटित इति प्रयोजनमुक्तं, न तूत्तरार्थमित्युक्तम् । न च कारणसाधनोपदेशशब्दानुवृत्त्या सिद्धे हलन्त्यसूत्रे ([[1.3.3]]) व्यवसितान्त्यमिति वक्तव्यं, के पुनर्व्यवसिताः ? - धातुप्रातिपदिकप्रत्ययनिपातागमादेशाः इति वार्तिकाद्यनुत्थानमिति वाच्यं, समुदायद्वाराऽवयवस्याप्युपदेशकरणत्वात्तदन्त्यस्यापि लोपापत्तिरित्याशयात् । भाष्यकृता चान्त्यग्रहणसामर्थ्येन प्रत्याख्यातम् ।
तत्रानुबन्धविशिष्टानां धातुत्वादि तु धातुत्वादियोग्यघटितत्वाद्बोध्यम् । निपातानां द्योतकत्वेन ‘ब्राह्मणवसिष्ठ’न्यायेन च पृथग्ग्रहणम् । व्यवसितञ्च - धातुत्वादिना परिच्छिन्नत्वाद् इति कैयटः । एवञ्चोदश्विदादिप्रातिपदिकान्त्यस्यापि लोपः प्राप्नोतीति <!प्रातिपदिकानां प्रतिषेधो वाच्योऽकृत्तद्धितान्तानाम!> इति वार्तिककृतोक्तम् । कुम्भकार इत्यादावपवादविषयपरिहारेणोत्सर्गप्रवृत्तेः पूर्वं प्रातिपदिकत्वे णादिलोपो न स्यादिति - ‘अकृदि’ति । तच्च ‘फलाभावान्नेत्सञ्ज्ञे’त्यादिना भाष्ये प्रत्याख्यातम् । अत्राद्योच्चारणार्थकोपदेशपदानुवृत्तौ त्वस्य वार्तिकस्यानुत्थानमेव स्यात् । उद्देशश्च प्रातिपदिकानां नोपदेश इति आदेच [[6.1.45]] इति सूत्रभाष्ये उक्तेः । एतद्भाष्यैकवाक्यतया पस्पशाह्निकान्तस्थे अग्रहणप्रातिपदिकानामुपदेशः कर्तव्यो — मञ्चको मञ्जक इति मा भूद् इति भाष्ये उपदेशशब्दो ग्रहणं कर्तव्यमित्यर्थकः । तच्चानुवादरूपमेव सन्देहनिवर्तकमिति बोद्ध्यम् ।
नन्वेवं तस्मिन्निति निर्दिष्टे [[1.1.66]] इति सूत्रे - षष्ठीप्रकल्पकत्वं तस्ये’ति पक्षे गुप्तिज्किद्भ्यः [[3.1.5]] इत्यादावपि षष्ठीप्रक्लृत्यापत्तिः, न च सनः सनेवादेशो भविष्यतीति बाधकाभाव इति वाच्यम्, _उपदेशे इत्युच्यमाना इत्सञ्ज्ञा न प्रकल्पेत - इत्युक्तं भाष्ये, तद्विरुद्ध्येतात्रोपदेशपदाननुवृत्ताविति चेन्न, तस्यैकदेश्युक्तित्वेनासाधकत्वात् । तथा हि - तत्र ङमो ह्रस्वादचि [[8.3.32]] इत्यादौ - यत्र सप्तमी पञ्चमी चेत्युभयं निर्दिश्यते तत्र - किं पूर्वस्य कार्यमथ परस्येति सन्देहे - परत्वानवकाशत्वाभ्यां पञ्चमीनिर्देशो बलवान् इति सिद्धान्तिनोक्तम् ।
तत एकदेशिना - यथार्थं वा षष्ठीनिर्देशः कर्तव्य इति समाधानान्तरमुक्तम् । यथाविषयं प्रागुक्तेषु कार्यिणः निर्देष्टव्याः इति तदर्थः । तेषु सप्तमीनिर्देशस्य क्वचित्पूर्वस्य क्वचिदुत्तरत्राऽऽवश्यकत्वेनोभयनिर्देशे गौरवेणैवैकदेश्युक्तिः ।
ततः परेणैकदेशिना — षष्ठीपदानुवृत्त्या तस्मिन्नित्यादेरेव षष्ठीप्रकल्पकत्वमाश्रित्य यथार्थं वा षष्ठी इत्येकदेश्युक्तिः प्रत्याख्याता । षष्ठीपदानुवृत्तौ गौरवादुभयोः प्रकल्पकत्ववारणाय परत्वानवकांशत्वयोरेकः पूर्वपरयोरिति पूर्वपरग्रहणस्य युगपत्प्रकल्पत्वाभावे ज्ञापकस्य चावश्यकत्वाच्चेयमप्येकदेश्युक्तिः । ततः पूर्वेणैकदेशिना तत्पक्षे गुप्तिजित्यादौ ([[3.1.5]]) दोषः शङ्कितः । ततः षष्ठीप्रक्लृप्तिवादिनैकदेशिनोक्तम् - स्यादेष दोषो यदीत्सञ्ज्ञा आदेशं प्रतीक्षेत । तत्र खलु कृतायामित्सञ्ज्ञायां लोपे च कृते आदेशो भविष्यति, ‘उपदेश’ इति हीत्सञ्ज्ञोच्यते — इति । एवञ्च त्वदुक्तिर्व्याहतेत्याशयः ।
तदग्रे उपदेशपदाननुवृत्तिमभिप्रेत्य - अथवा नानुत्पन्ने सनि प्रक्लृप्त्या भवितव्यम्, यदा चोत्पन्नः सन् तदा कृतसामर्थ्या पञ्चमीति प्रक्लृप्तिर्न भविष्यति इति समाधानान्तरं कृतम् । तत्र परत्वविशिष्टस्य सन उत्पादने पञ्चम्या उपक्षयात्प्रवृत्त्यन्तराभावान्नास्ति तस्याः प्रकल्पकत्वमिति तदर्थं कैयट आह । एवञ्च प्रकृतसूत्रस्थस्य सूत्रार्थप्रतिपिपादयिषया प्रवृत्तस्य भाष्यवार्तिकस्यैकदेश्युक्ततद्भाष्यबलेन प्रौढिवादत्वकल्पनं नोचितम्, लक्ष्यासिद्धेश्च । अइउण् इत्यादीनामपि क्रमबोधकत्वेनार्थवत्त्वात् प्रातिपदिकत्वम् । चित्रङश्चोः कुरित्यादेरपि([[8.2.30]]) प्रातिपदिकत्वम् । लोपश्चेत्यत्रापि शकारस्य स्वरूपेणार्थवत्त्वात्प्रातिपदिकत्वम् । अनुबन्धानामेकान्तत्वे तु ‘लोपो यी’त्यतो ([[6.4.118]]) लोपग्रहणेऽनुवर्तमाने पुनर्लोपग्रहणात्सर्वादेशत्वं बोद्ध्यम् । एकाच उपदेश [[7.2.10]] इत्यत्रत्यः कैयटोऽपि चिन्त्य एव । अन्योऽपि तज्जातीयश्चिन्त्य एव । एकाच उपदेश [[7.2.10]], आदेच उपदेशे [[6.1.45]] इत्यादौ तु भावसाधन एवेति सुधियो विभावयन्त्वित्याहुः ॥