अतो भिस [[7.1.9]] इत्यादौ तपरकरणात् सहिवहो[[6.3.112]] इति सूत्रस्थवर्णग्रहणाद्व्याख्यानाच्च तपरपदे बहुव्रीहिपञ्चमीतत्पुरुषावित्याह - तः पर इत्यादिना। वर्णग्रहणे तु तत्सामर्थ्यादत्वावच्छिन्नसर्ववर्णग्रहणयोधनेन तपरसूत्राप्रवृत्तिः । आद्योदाहरणम्- अतो भिस [[7.1.9]] इति, अन्त्योदाहरणं- वृद्धिरादैच् [[1.1.1]] इति । यद्यप्यत्र सञ्ज्ञा तात्परा, न च तत्समकालस्तत्सवर्णो वा प्रसिद्धस्तथापि तपरकरणाद्भाष्यप्रामाण्याच्च तात्परशब्दबोद्ध्यो वर्णः स्वसमकालग्राहक इत्यर्थेनाऽदोषः । इदञ्च विद्ध्यर्थमेव, अण्ग्रहणाननुवृत्तेः गुणानां भेदकतयाऽनणि विधित्वेऽपि वृद्धिरादैच् [[1.1.1]] इत्यादावाकारांशे सावकाशेनानेन अतो भिस [[7.1.9]] इत्यादौ परत्वेन अणुदित् [[1.1.69]] सूत्रबाध: । सङ्ख्याकृतव्यवहारस्य परस्परपरिहारेणैव दृष्टतयेह विरोधस्य सत्त्वात् । गुणानामभेदकत्वे त्वनवकाशत्वाद्बाध इति बोद्ध्यम् । अत्रावध्यवधिमतोः साजात्येन वर्णस्यैव सञ्ज्ञात्वेऽपि विशिष्टाद्विभक्त्युत्पत्तिः सौत्रत्वाद्बोध्या। तत्कालस्येत्यस्य तदुच्चारणकालसमकालस्येत्यर्थस्तदाह - समकालस्यैवेति । एवकारो न्यायसिद्ध बाध्यबाधकभावस्यानुवादक इति भावः । जातिपक्षे तु नियमार्थमेव सवर्णग्रहणानुवृत्तेः एवं गुणानामभेदकत्वमिति- वृद्धिरादैच् [[1.1.1]] इति सूत्रभाष्यसम्मत सिद्धान्तपक्षेऽपि नियमार्थमेव ।

इदम् आद्गुणः [[6.1.87]] इत्यादौ विभक्तितकारे न प्रवर्तते, उपसर्गादृति [[6.1.91]] इति तपरकरणात् । ॠदोरप् [[3.3.57]] इत्यादौ दकार एवेति न दोषः । स च पञ्चमीसमासाभावे तकार इवोच्चारणार्थो, मुखसुखार्थो वा । तपरसूत्रे दकारप्रश्लेषपक्षे तु धकारादिस्थानिको दकारो बोध्यः ।