हलोऽनन्तरा: संयोगःगर्गाः शतं दण्ड्यन्ताम् इत्यत्र समुदाये शतदण्डनवदत्र समुदायस्यैव संज्ञा, न प्रत्येकम् । अनन्तरा इत्युक्तेश्च । तस्य विशेषणताया एवौचित्यात् ।

यत्तु संयुज्यन्ते वर्णा यत्र इत्यन्वर्थसञ्ज्ञाबलात् न प्रत्येकं संज्ञा इति तन्न । घटपटौ संयुज्यते यत्र इत्यादौ संयुज्यमानपदार्थातिरिक्त स्यैवान्यपदार्थतया प्रतीतेर्व्युत्पन्नत्वेन तदतिरिक्ततद्घटितपदवाक्यरूपसमुदायस्य संज्ञापत्तावनिष्टापत्तेः। महासंज्ञा तु प्राचामनुरोधादेव । तेन ‘सुदृषद्धाति’ इत्यत्र संयोगान्तलोपो नेत्यन्यत्र विस्तरः ।

‘हल’ इति बहुवचनं सौत्रम् । यद्वा — हलौ च हलश्चेत्येकशेषः । स्वरितात् संहितायाम् [[1.2.39]] इति सूत्रे अनुदात्तानामिति पदे तथैकशेषस्य भाष्ये करणात् । तेन द्वयोरपीति ‘शिक्षा’ इत्यादौ गुरोश्च हल: [[3.3.103]] इत्यप्रत्ययः सिद्ध्यति । यत्रापि बहवः श्लिष्टास्तत्रापि द्वयोर्द्वयोरेव न बहूनाम्, झलि परे संयोगादिलोप विधानात् । बहूनामपीति चिन्त्यमेव फलाभावात् । तत्र तत्राङ्गपदधात्ववयवसंयोग स्यैवाश्रयणेन तादृशस्य च त्रयाणां संयोगस्याभावादिति भाष्ये स्पष्टम् । आनन्तर्यं व्यवधानाभावो व्यवधानञ्च विजातीयेनैवेत्याशयेनाह— अभिरिति । अत्र कुत्वं न्याय्यम् । अत एव हयवरट्सूत्रे ‘अचोऽक्षु’ इति भाष्यप्रयोगे कुत्वं दृश्यते । स्वरैरव्यवहिता इति तूचिता वृत्तिः । हलः किम् ? ‘तितउदेव’ । अत्र गुरो: [[8.2.86]] इति प्लुतः स्यात् । अनन्तराः किम्? द्रप्सम् । अत्र सकारमकारयोः संयोगत्वे स्को: [[8.2.29]] इति लोप: स्यात् ।