अणुदित्सवर्णस्य चाप्रत्ययः । अणमुद्दिश्य सवर्णबोधकताऽत्र विधीयते। सवर्णस्येत्यस्य बोधक इति शेषः । आदेशादौ सवर्णग्रहणवारणायाह-प्रतीयते इति ।

परे तु— प्रत्ययग्रहणमेकदेशानुमत्या <ऽभाव्यमानेन सवर्णानां ग्रहणं नऽ> इति परिभाषां ज्ञापयतीति युक्तम् । प्रत्ययपदस्य तदर्थत्वन्तु न युक्तं - वार्तिककृता टित्किन्मित्सूपसङ्ख्यानोक्तेः । भाष्यकृता च अप्रत्ययग्रहणमेतत्परिभाषाज्ञापकमित्युक्तम् । ज्यादादीयसः [[6.4.160]] इति सूत्रे भाष्ये ध्वनितमिदम् । तत्र हि किमर्थमादित्युच्यते? ज्याद इत्येवोच्यतां, का रूपसिद्धि ? आन्तर्यतो दीर्घस्य दीर्घो भविष्यति, एवन्तर्हीदमेव ज्ञापयति भवत्येषा परिभाषा - <ऽभाव्यमानेनऽ> इत्यादि । त्वदुक्तव्याख्याने हि पूर्वपक्षसिद्धान्तयोरुभयोरपि निर्दलत्वापत्तिः । जातिपक्षेऽप्यनयैव परिभाषया सवर्णग्रहणं वारणीयं, व्यक्तिपक्षे गुणा भेदकत्वप्राप्तञ्च वारणीयम् तेन घटवादित्यादौ नानुनासिको वकारः। एतेन अजुदिदित्येव सिद्धेऽण्ग्रहणेन यण्सु गुणभेदकत्वं ज्ञाप्यते’ इति परास्तम् — इत्याहुः

ननु चोः [[8.2.30]] इत्यादावनुवादे कथमुदित्त्वमिति चेन्न, व्याकरणान्तरे एषामुदित्सञ्जकत्वेनादोषात् । उपदेशशब्दस्य करणसाधनत्वेन शास्त्रपरत्वे तस्यापि शास्त्रत्वेनेत्त्वप्रवृत्तेः सुलभत्वाच्च । चो भिन्नक्रम इत्याह- उदिच्चेति । यद्यपि समुदाय-सवर्णिनोऽप्रसिद्धास्तथापि तदवयव-चादिसवर्णा एवात्र तत्सवर्णा बोद्ध्याः । ह्रस्वाकारादेरपि काल-पुरुषाद्यपाधिभेदेन स्थानेषु भेदमारोप्य तुल्यस्थानत्वं सूपपादम्।

अत्रेति । ग्राहकसूत्र एवेत्यर्थः । व्याख्यानादिति भावः । उपसर्गादृति [[6.1.91]] इत्यादितपरकरणादिति तु न युक्तम्, ऌकारग्रहणेन चारितार्थ्यात् । एवमिणपि-परेणैव, अचि श्नु [[6.4.77]] इति सूत्रे- इण इत्येव सिद्धे य्वोः इति गुरुनिर्देशाद्व्याख्यानाच्चेति लण्सूत्रे भाष्ये स्पष्टम् । नन्वेवम् - अस्य च्वौ [[7.4.32]] इत्यादौ सवर्णग्रहणं न प्राप्नोति, अण्ग्रहणेन वर्णसमाम्नायस्थानामेव ग्रहणेन- णकारादिचिह्नेन प्रत्याहारे तत्प्रत्यभिज्ञानेन तत्रत्याद्यवर्णोपस्थितेषु- उच्चारिताभेदेन गृहीतेषु सूत्रस्य चारितार्थ्येन, व्यक्तिपक्षे तत्रत्यात्रत्यव्यक्त्योर्भेदेन, प्रकृते प्रत्याहारघटकद्वितीयवर्णादौ चोच्चारितस्यैव ग्राहकत्वादप्रवृत्तेरिति चेन्न, जातिपक्षाश्रयणेनादोषात् । अत एवानेकतकारादीनां झल्त्वादिसिद्धिः ।

सूत्रेऽग्रहणं च न कार्यम् । <!ऋऌवर्णयोः सावर्ण्यम्!> इत्यनेन समानजातित्वस्यैवातिदेशेन उपसर्गादृति [[6.1.91]] इत्यादौ न दोषः, एतद्व्यतिरिक्तसवर्णे समानजातित्वसत्त्वात् । पृथगनुबन्धकरणाच्च न ऋदिलॢदित्प्रयुक्तकार्यसङ्करः । अत्र पक्षे अइउण् सूत्रशेषोक्तभाष्यरीत्या तपरसूत्रस्य जातिग्रहणप्राप्तसवर्णग्रहणनियामकत्ववदप्रत्यय इत्यस्य योगविभागेन- तत्प्राप्तसवर्णग्रहणनिषेधकत्वात्- त्यदादीनामः [[7.2.102]] इत्यादौ विधेये न दोषः । एवं गुणाभेदकत्वप्राप्तसवर्णग्रहणनिषेधकत्वमप्यस्य योद्ध्यम् । अत एव ‘घटवदि’त्यादौ मतोर्मस्य नानुनासिको वकारः ।

सामर्थ्यादितिएचोऽयवायावः [[6.1.78]] इत्यादौ स्थानेऽन्तरतमसूत्रेणैव ([[1.1.50]]) निर्वाह इति वक्ष्यते। न य्वाभ्याम् [[7.3.3]] इत्यत्र ऐऔ स्वरूपेण पाठ्यौ, वृद्धिरादैच् [[1.1.1]] इत्यत्राप्येङित्येव पाठ्यं, तत्र गुणसूत्रे च परस्परसवर्णसञ्ज्ञावादिमते चतुर्णां ग्रहणसत्त्वात् । अत्रैतत्सूत्रवैयर्थ्योपन्यासेन तन्मूलकस्य गुणवृद्धिसञ्ज्ञाविधौ प्रत्याहारद्वयग्रहणवैयर्थ्यस्य, प्लुतावैच [[8.2.106]], एचोऽप्रगृह्यस्ये [[8.2.107]] इत्यत्र तद्ग्रहणवैयर्थ्यस्य च सङ्ग्रहो बोध्यः । प्रयत्नभेदेनाप्यसावर्ण्यमेतयोः प्रागुक्तं न विस्मर्त्तव्यम् ।

यद्यपीति । इदं व्यक्तिपक्षे- वर्णानामुपदेशस्तावदुपदेशोत्तरकाले सञ्ज्ञा, तदुत्तरकालमादिरन्त्येनेति प्रत्याहारस्तदुत्तरकाला सवर्णसञ्ज्ञा, तदुत्तरकालमणुदिदिति एतेन सर्वेण समुदितेन वाक्येनान्यत्र सवर्णानाङ्ग्रहणं भवति, न चात्रेकार: शकारं गृह्णाति इति नाज्झलौ [[1.1.100]] इति सूत्रभाष्योक्तवाक्यापरिसमाप्तिन्यायादित्यर्थः । अयं भाव:- आदिरन्त्येन [[1.1.71]] इति प्रत्याहारसिद्धौ नाज्झलौ [[1.1.10]] इत्येतद्वाक्यार्थबोधे सति निर्णीतैतद्विषयपरिहारेण सवर्णसञ्ज्ञाबोध्यनिश्चये अणुदित्सूत्रेण [[1.1.69]] तावतां ग्रहणं बोधनीयम् । अन्यथा बाधकसम्भावनया तुल्यास्यसूत्रजशक्तिग्रहेऽप्रामाण्यसन्देहे नाणुदिच्छास्त्रजबोधानापत्ति: - न चैतद्वाक्यार्थयोधात्प्राक् तन्निश्चय - इति ।

हो ढ [[8.2.31]] इति । हकारेणाऽऽकारग्रहणे सति यद्यप्राप्नोति तस्य सर्वस्याप्युपलक्षणमिदम् । ननु यण्सवर्णिनामप्रसिद्धेरज्यहणेनैव सिद्धेऽण्ग्रहणं व्यर्थमत आह- यवला इतिञमोऽनुनासिका न ह्रौ (पा.शि. 39) इति शिक्षोक्तेर्यण इति नोक्तम् । तेन सँय्यन्तेत्यादौ परसवर्णनिष्पन्नानुनासिकयवलानाम् अनचि च [[8.4.47]] ईति द्वित्वं सिद्ध्यति। हलो यमाम् [[8.4.64]] इति लोपस्तु वैकल्पिकः । अत्रेदं बोद्ध्यम्- व्यक्तिः पदार्थों गुणा भेदका इत्यभिमानेनात्र सूत्रेऽण्ग्रहणमिति ।