स्वं रूपं स्वरूपमित्यस्य बोद्ध्यमिति शेषो व्याख्यानात्तदाह सञ्ज्ञीति । राज्ञो यत् ([[4.1.137]]) इत्यादौ लौकिकव्युत्पत्त्योपस्थितार्थस्य प्रत्ययेन पौवपर्यासम्भवात्प्रातिपदिकादित्यनेनान्वयासम्भवाच्च तदर्थकशब्दमात्रग्रहणापत्तौ नियमार्थं सूत्रम् ।

तत्र स्वशब्द आत्मीयत्वेनार्थमाह - रूपशब्देन शब्दस्वरूपम्, एतदुभयं सञ्ज्ञीत्यर्थः । तत्रार्थो न विशेष्यः, उक्तयुक्तेः, किन्तु शब्दविशेषणम् । एवञ्च — अर्थविशिष्टः शब्दः सञ्ज्ञी इत्यर्थवद्ग्रहणपरिभाषा सिद्धा । अत्र चार्थः — कल्पितान्वयव्यतिरेककल्पितः, प्रकृतिप्रत्ययादिबोध्यः शास्त्रीयोऽपि । स च मुख्यः प्रसिद्धश्चेति — गौणमुख्यन्यायः, अभिव्यक्तपदार्था ये इति न्यायश्च सिद्धः। अत एवेयं विशिष्टरूपोपादान एव, इदं सूत्रञ्च । तत्रैवार्थोपस्थितेस्तत्रैवानियमप्रसक्तेश्च, न तु वर्णग्रहणे इत्याकरे स्पष्टम् । दाधाघु [[1.1.20]] इत्यस्य ई हल्यघो: [[6.4.113]] इत्यादौ चारितार्थ्येन उपसर्गे घोः [[3.3.92]] इत्यादौ स्वरूपमित्यनेन परत्वाद्बाधशङ्कावारणार्थम् — अशब्दसञ्ज्ञेति । नात्र षष्ठीतत्पुरुषः, कर्मसञ्ज्ञादेरर्थसञ्ज्ञात्वेन निषेधाप्रवृत्तौ कर्मण्यण् [[3.2.1]] इत्यादौ स्वरूपग्रहणापत्तेः, किन्तु सप्तमीतत्पुरुषः । शब्दपदेन च शब्दशास्त्रं तदाह शब्दशास्त्रे इति ।

भाष्ये तु अर्थे कार्यस्य बाधेऽप्युपस्थितत्वात् ‘राज्ञ’ इत्यादौ तज्जन्यबोधे प्रकारतया भासमानस्य राजन्-शब्दस्यैव ग्रहणं भविष्यतीति व्यर्थं सूत्रम् । उपस्थितार्थत्यागे मानाभावेन तस्य विशेषणतयाऽन्वयसम्भवेन चार्थवत्परिभाषापि सिद्धा । लक्ष्यानुसारात् तत्तत्संज्ञाकरणज्ञानरूपप्रकरणाच्च षान्तसंख्यावाचकषष्शब्दस्य षट्सञ्ज्ञाकरणेन शब्दशास्त्रीयसञ्ज्ञायां स्वरूपाग्रहणज्ञापनाच्च उपसर्गे घोः [[3.3.92]] इत्यादावदोषेणाशब्दसञ्ज्ञेत्यपि व्यर्थमित्युक्तम् । अत एव जनपदापत्यपशुदेवतादिशब्देषु न दोषः । अत एव वृक्षादिषु विशेषाणां ग्रहणं स्वे पुष [[3.4.40]] इत्यत्र पर्यायाणां विशेषाणां स्वरूपस्य च ग्रहणम्, सभाराजा [[2.4.23]]) इत्यत्र पर्यायाणामेव ग्रहणम्, पक्षिमत्स्यमृगान्हन्ति [[4.4.35]] इत्यादौ मृगपक्षिणोः पर्यायाणां विशेषाणां स्वरूपस्य च ग्रहणम्, मत्स्यपदेन स्वरूपस्य विशेषाणां मीनरूपपर्यायस्य च ग्रहणं सिद्ध्यति । अन्यथा तदर्थं यत्नः कर्त्तव्यः । परेश्च घाङ्कयोः [[8.2.22]] इत्यत्र घशब्देन स्वरूपग्रहणं नदीपौर्णमासि [[5.4.110]] इत्यत्र नदीपदेन च स्वरूपग्रहणं सिद्ध्यति । लक्ष्यानुसारिव्याख्यानेन च मम सर्वेष्टसिद्धिः । ज्ञापकपक्षेऽपि ज्ञापकसिद्धस्यासार्वत्रिकत्वान्न दोषः । अत एव भगवता ज्ञापकेन सिद्धं वचनं प्रत्याख्यातमिति दिक् ।