तस्मादित्युत्तरस्य [[1.1.67]] इति सूत्रे निर्दिष्टे इति निर्दिष्टादित्यर्थकं विभक्तिविपरिणामात् सा चोत्तरस्येति दिग्योगलक्षणा इति दिग्योगलक्षणपञ्च म्यामेव तत्प्रवृत्तिः उद:स्था… [[8.4.61]] इत्यादौ च उद इति दिग्योगलक्षणा पञ्चमी । तत्रानियतदिक्शब्दाध्याहारे प्रसक्ते परशब्दस्यैवाध्याहार इति तस्मात् इत्यनेन नियम्यते । अव्यवहितोच्चारितात्पञ्चम्यन्तात्परस्येति तदर्थः । तत्फलितमाह — सप्तमीनिर्देशेनेत्यादि । यदि तु अर्धमात्राधिककालेन वर्णान्तरेण वा व्यवधाने उपश्लेष एव नेत्युच्यते तदा निर्दिष्टपदं संहिताधिकारश्च विफल इति संहितायाम् [[6.1.72]] इति सूत्रे भाष्ये स्पष्टम् । अवग्रहे च सम्प्रदाय एव शरणमिति आनङादिविषये आदेशोत्तरमेवावग्रहोऽन्यत्र ततः प्राक् । अकृतव्यूहपरिभाषा त्वनित्या, नास्त्येव वा। न लक्षणेन पदकारा अनुवर्त्याः, पदकारैर्नाम लक्षणमनुवर्त्यम् इति भाष्येण तदनुरोधेन शास्त्रासङ्कोचस्य शास्त्रकरणाभावस्य च स्पष्टमुक्तत्वाच्च ।

एतेन संहिताधिकारस्तद्बहिर्भूतानामर्धमात्राधिककालव्यवाये प्रवृत्तिज्ञापनार्थ:, तेन ‘अग्नाविष्णू’ इत्यादाववग्रहे आनङादिसिद्धिरित्यपास्तम् । प्रत्ययः [[3.1.1]], परश्च [[3.1.2]] इत्यादौ तूत्तरांशविकला तस्मात्… [[1.1.67]] इति परिभाषा प्रवर्त्तते । तेन न प्रत्यया व्यवहिताः । अत्र एव छन्दसि परेऽपि [[1.4.81]], व्यवहिताश्च [[1.4.82]] इति सूत्रं सार्थकम् । आगमविधावपि आने मुक्[[7.2.82]] इत्यादौ तस्मिन्… [[1.1.66]] इति परिभाषया पूर्वसम्बन्धित्वनिर्णयः । अत एवात्र पूर्वस्येत्यादि न स्थानषष्ठी । तत्तद्विधिभिरेव सम्बन्धस्य निर्णीतत्वेन षष्ठी स्थानेयोगा [[.1.149]] इत्यस्याप्रवृत्तेः । गाङ्कुटादिभ्यः [[1.2.1]] इत्यादावपि षष्ठ्यंशविकलैतत्परिभाषाप्रवृत्तिर्बोद्ध्या । परिभाषाणां नियमत्वन्तु यदि परि भाषासूत्रं न स्यात्तदा व्यवहितादावपि प्रवृत्तिः स्यादित्येतावतेति दिक् ।