तस्मिन्निति निर्दिष्टे पूर्वस्य [[1.1.66]] । अत्र तस्मिन् इति उत्तरत्र तस्मात् इति सप्तम्यन्तपदपञ्चम्यन्तपदार्थकः स्वतन्त्रस्य सर्वनाम्नो निर्देशो व्याख्यानात्, बहु लक्ष्यसंस्कारानुरोधाच्च । न तु तत्तत्पदपरम् । अन्यथा तस्मिन्नणि च [[4.3.2]], तस्मान्नुडचि [[6.3.74]], तस्माच्छसो न [[6.1.103]] इत्यत्रैव प्रवर्त्तेयाताम् । सप्तमी तु सप्तम्यन्तानामेव तच्छब्दार्थत्वमिति बोधनाय, निर्दिष्टे इत्यनेन सामानाधिकरण्याय च । इति शब्दः पुनस्तस्य तदर्थपरत्वं बोधयति । निःशब्दो नैरन्तर्ये दिशिरुच्चारणे । एवञ्च सप्तम्यन्तार्थेऽव्यवहितोच्चारिते उपश्लिष्टस्य पूर्वस्य कार्यमिति वाच्योऽर्थः । एवञ्चैतत्परिभाषाद्वयोपस्थितौ सप्तम्यन्तपदस्य पञ्चम्यन्तपदस्य चार्थो लिङ्गम् ।

अत्र सूत्रे उपश्लिष्टपदाध्याहारेण निर्दिष्टे इति औपश्लेषिकेऽधिकरणे सप्तम्येवोचिता, उपपदविभक्तेः.. इति न्यायात् । न तु सतिसप्तमीति तत्र च दीयते [[5.1.96]] इति सूत्रे कैयटे स्पष्टम् । स्नुक्रमोः.. [[7.2.36]] इति सूत्रे च कैयट आह- तस्मिन्निति परिभाषायां सत्यां सत्सप्तम्या श्रयणमशक्यम् इति । उपश्लेषः समीपवृत्तित्वं तच्च वर्णयोबद्धं द्रष्टव्यम्। एवं इको यणचि [[6.1.77]] इत्यादावपीयमेवेति संहितायाम् [[6.1.72]] इति सूत्रे भाष्ये । तत्रोपश्लेषः पूर्वस्येव परस्याव्यवहितस्येव व्यवहितस्य चेति पूर्वस्यै वेति नियमार्थमिदमव्यवहितस्यैवेति च । अत एव लक्ष्यानुसारात् क्वचित्सतीत्यध्याहारात् सत्सप्तम्याश्रयणे नास्याः प्रवृत्तिरिति श्नान्नलोप [[6.4.23]] इत्यत्र भाष्ये उक्तम् । अत एव कर्तृकर्मणोः कृति [[2.3.65]] इत्यत्र नास्याः प्रवृत्तिः, कृति सति प्रत्यासत्त्या तत्प्रकृत्यर्थः कर्तृकर्मणोः षष्ठीति तदर्थात् ।