अचोऽन्त्या । अच इति निर्धारणे षष्ठी । अन्ते भवो अन्त्यः । “अन्त्यादि” इति गमकत्वाद् बहुव्रीहिः । मार्त्तण्ड इति । मृतण्डादागतो मार्त्तण्डः । अण्विषये एव पररूपम् । ननु मार्त्तशब्दादन्त्याच् तकाराकारः स आदिर्यस्येत्यन्यपदार्थो दुर्लभ इति चेन्न । एकस्मिन्नेव समुदायरूपत्वारोपेण तदवयवत्वारोपेण च तदुपपत्तेः । एतन्मूलकमेव <ऽ व्यपदेशिवदेकस्मिन् ऽ> <{PB३०}> इति पठ्यते इत्यलम् । वस्तुत आरोपस्य नात्रोपयोगः । शब्दज्ञानानुपाती वस्तुशून्यो विकल्प: (यो०सू० १/३/१०) इति पतञ्जल्युक्तेः, अर्थाभावेऽपि विकल्पात्मकं ज्ञानमत्र, तदपि लक्ष्यानुरोधाच्छास्त्रप्रवृत्त्युपयोगीति बोद्ध्यम् । पतञ्जलिरिति तु अञ्जलेः पतित इति विग्रहे मयूरव्यंसकादित्वात्समासे तत्रैव निपातनादितशब्दस्य लोपे पृषोदरादित्वाद्वा तल्लोपे साधु । गोनर्ददेशे कस्यचिदृषेरञ्जलेः सन्ध्याकरणसमये पतित इत्यैतिह्यात् । ओत्वोष्ठयोः । अत्र समर्थपरिभाषा (समर्थः पदविधिः [[२.१.१]]) नोपतिष्ठते समासेऽङ्गुलेः सङ्गः [[८.३.८०]] इत्यादौ समासग्रहणेन “पदविधिरि"ति (समर्थः पदविधिः [[२.१.१]]) सूत्रस्वरसेन भाष्यादिस्वारस्येन च पदत्वेन सुबन्तत्वेन वा यत्र साक्षादुद्देश्यता तत्रै वैतत्परिभाषाप्रवृत्तिस्वीकारात् । ओत्वोष्ठादिमात्रस्य पदत्वाभावात् । अवर्णादोत्वोष्ठयोरचि तद्घटितसमास इत्यर्थात् दन्त्योष्ठ्यो वः स्मृत इति प्रयोगसिद्धिः । अन्यथा प्रत्त्यासत्त्यौत्वाद्युत्तरपदकसमास एव प्रवृत्त्यापत्तौ तदसङ्गतिः स्पष्टैव । ओतुर्बिडालः ॥