अदर्शनम् । स्थाने इति वर्त्तते, प्रसङ्गे सतीति तदर्थस्तदाह – प्रसक्तस्येति । शास्त्रतोऽर्थतो वेति भावः । अत्र दृशिर्ज्ञानसामान्ये । तत्र ज्ञानस्याऽवर्जनीयतया तत्सामग्र्यन्तर्गता उच्चारणकृता सत्ता निषिद्ध्यते । तत्र प्रत्ययलोपे शास्त्रतोऽर्थतश्च प्रसक्तोच्चारणस्य लोपविधानेन तस्य तस्मिन् विषयेऽनुत्पत्तेरेवान्वाख्यानं प्रत्ययलक्षणार्थमिति बोद्ध्यम् । अर्थस्यैषा सञ्ज्ञा व्याख्यानात् । यत्तु प्रसक्तस्येति किं ? ग्रामे तिष्ठति इत्यादौ “ल्यब्लोप” (<!ल्यब्लोपे कर्मण्यधिकरणे च!> (वा० [[२.३.२८]])) इति पञ्चम्यापत्तेः। अस्ति चात्र ल्यपोऽदर्शनम् । शास्त्रतोऽर्थतश्च न तत्प्रसक्तिरिति न दोष इति । तन्न । तेन प्रत्यासत्त्या ल्यबन्तार्थकर्माधिकरणयोरेव पञ्चमीविधानेन तस्यात्राप्राप्तेः । तत्त्वे तु अस्त्येवार्थतो ल्यबन्तस्य प्रसक्तिः । तस्मात् त्रपु इत्यत्र क्विपोऽदर्शनसत्त्वेन प्रत्ययलक्षणेन तुगापत्तिर्दोषः । कृत्प्रत्ययेन प्रकृत्याक्षेपस्तु न । अत्रैव प्रकृतिं विनाऽतिदेशतः प्रत्ययज्ञानसत्त्वेन व्यभिचारात्तदाक्षेपासम्भवात् ॥