न पदान्त । अत्र द्विर्वचनसवर्णादिग्रहणं वतिघटितान्यातिदेशानां त्रिपाद्यामपि प्रवृत्तिबोधनार्थम् । तेन रामः इत्यादौ विसर्गादिसिद्धिः । अत्र विधिशब्दो भावसाधनः । पदान्तेत्यत्रान्तशब्दश्चरमावयववाची । कर्मषष्ठ्या समासः । तेन एषो यन् हसति इत्यादौ एतत्तदोः सुलोपोऽकोरनञ्समासे हलि [[६.१.१३२]] इति सुलोपो न । इणः शतरि यन् इति रूपम् । तत्र यणः स्थानिवत्त्वात् । उत्वे च न स्थानिवत् । अनेन निषेधात् । स्पष्टञ्चेदं भाष्ये इति भाष्यप्रदीपोद्द्योते निरूपितम् । अत्र पदेऽन्त इति सप्तमीसमासो भाष्ये उक्तस्तेन प्रत्यासत्त्या पदे परतः चरमावयवे कार्ये कर्त्तव्ये परपदस्थाजादेशास्यैवानेन स्थानिवत्त्वनिषेध इति वेतस्वान् इत्यादौ न दोषः । न चैवमपि “पूर्वत्रासिद्धीये न स्थानिवत्” इति निषेधोऽत्र दुर्वारः । “पदेऽन्त” इत्यर्थेन तत्र स्थानिवत्त्वनिषेधव्यावृत्तिपरभाष्यप्रामाण्येन पूर्वत्रासिद्धे इत्यत्र पदचरमावयवविधायकातिरिक्तस्यैव त्रैपादिकस्य ग्रहणात् । अत एव महिष्मान् इत्यत्र जश्त्वं न । सूत्रे जश्पदेन झलां जश् झशि [[८.४.५३]] इत्य स्यैव ग्रहणं, चर्सन्निहितस्यैव ग्रहणौचित्यात् । कार्यकालपक्षेऽपि त्रिपाद्यामन्तरङ्गपरिभाषा न प्रवर्त्तत इति वक्ष्यते इति न तयाऽस्य सिद्धिः । गोचा इत्यादौ “गतिकारकोपपदानाम्” (<ऽ गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः ऽ> <{PB76}>) इत्यस्यानित्यत्वेन सुबुत्पत्त्यनन्तरमेव समासः । “उत्तरपदत्वे च” (<!उत्तरपदत्वे चापदादिविधौ!> (वा० [[१.१.६३]])) इति प्रत्ययलक्षणप्रतिषेधश्च प्रत्यासत्त्योत्तरपदस्य कार्यित्वे एवेति न दोषः । पदे इति पदत्वयोग्योपलक्षणं वा । अत्रेदं भाष्यमपि मानम् । अत्र पदचरमावयवादिसाधकः प्रतिबन्धकश्च स्थानिवद्भावो निषिद्ध्यते, विनिगमनाविरहात् । एतत्सूत्रभाष्य कमेर्णिङ् [[३.१.३०]] इत्यादिसूत्रभाष्यैः पूर्वत्रासिद्धे न स्थानिवत् इत्यवष्टभ्य वरेयलोपस्वरदीर्घग्रहणवर्जं द्विर्वचनादि प्रत्याख्यातमिति लभ्यते । निषेध इति । द्विर्वचनग्रहणात “पूर्वत्रासिद्धे” इति निषेधाद्वेति भावः ॥