अचः पर । आदेशग्रहणमनुवर्त्तते (स्थानिवदादेशोऽनल्विधौ [[१.१.५६]]) । तदनुरोधात् अच इति स्थानषष्ठी, परस्मिन्नित्यादेशविशेषणं तदाह - परनिमित्त इत्यादि । अच एवादेश इत्यर्थः । तेन मरुतमाचष्टे मारयति इत्यादौ वृद्धिः । अत्र सूत्रे प्रयोगे योऽच् तत् स्थानिक इत्यर्थः । न तु सूत्रे स्थानित्वेनोपात्ताच्स्थानिक इत्यर्थः । तेन णिलोपादेरनेन स्थानिवत्त्वं सिद्ध्यति । अत एव चङ्परनिर्ह्रासे ण्यन्तात् णिचि अवीवदत् इत्यादिसिद्ध्यर्थो निषेधः सार्थकः । अच इति किम् ? आगत्य । मलोपस्य स्थानिवत्त्वात् ह्रस्वस्य पिति कृति तुक् [[६.१.७१]] इति तुग्न स्यात् । परस्मिन्निति किम् ? युवजानिः । निङः स्थानिवत्त्वेन मलोपो न स्यादिति । पूर्वविधाविति किम् ? नैधेयः । निपूर्वाद्धाञः किप्रत्यये आतो लोपे तस्य स्थानिवद्भावात् त्र्यच्त्वव्यपदेशविरोधात्स्वाश्रयद्व्यच्त्वनिवृत्तौ ढगनापत्तेरिति दिक् । अत्र स्थानिनि सति यद्भवति तदादेशेऽपि भवति, स्थानिनि यन्न भवति तदादेशेऽपि नेति भावाभावयोरुभयोरप्यतिदेशः । तत्र भावोदाहरणं निगाल्यते इति । अन्त्योदाहरणं पटयति इत्यादि । स्थानिनिमित्तकं भवति आदेशनिमित्तकं नेति च तदर्थः । लघूपधत्वसम्पादनद्वारा लोपनिमित्तिका वृद्धिरित्याहुः । स्थानिभूतादच इति । सूत्रे श्रवणाद्व्याख्यानाच्च तस्यैव पूर्वत्वेऽवधित्वमिति भावः । “पूर्वविधौ” इत्यस्य पूर्वसम्बन्धिन्येव शास्त्रविधेये कर्त्तव्ये इत्यर्थः, तेन पूर्वपरयोर्विधौ न । तेन आरतुः इत्यादौ ऋच्छत्यॄताम् [[७.४.११]] इति गुणस्य सर्वणदीर्घे न स्थानिवत्त्वम् । वस्तुतोऽत्र पूर्वविधिशब्दे तन्त्रम् । एकस्योक्तोर्थः । द्वितीये भावे किः । सम्बन्धसामान्यषष्ठ्यन्तपूर्वशब्देन समासः । विधिर्भावः पूर्वसम्बन्धिभावे तत्स्थितौ स्थानिवदित्यर्थः । अत एव ऐनेय इत्यादौ यस्येति च [[६.४.१४८]] इति लोपे तस्य स्थानिवत्त्वात्सन्नियोगशिष्टन्यायप्राप्तनिवृत्तिप्रतिबन्धेन नकारस्थितिः । अत एव न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु [[१.१.५८]] सूत्रे पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्र इति लुकि न स्थानिवत् इत्यस्योदाहरणं उक्तं भाष्ये । अन्यथा तत्र पूर्वत्वेन दृष्टस्य सम्बन्धिनः कस्यचित् विधेयस्याभावात्स्थानिवत्त्वाप्राप्तिरेवेति तदसङ्गतिः स्पष्टैव । प्रकृतसूत्रेऽपि भाष्ये कर्मसाधनस्य विधिशब्दस्योपादाने न सर्वमिष्टं संगृहीतमिति भावसाधनो विज्ञास्यते पूर्वस्य विधानं प्रति पूर्वस्य भावं प्रति स्थानिवत् इत्युक्तम् । तत्र भावसाधन इत्यस्य सोऽपीत्यर्थः । पूर्वत्वञ्च व्यवहिताव्यवहितसाधारणम् । अव्यवहितग्रहणे मानाभावात्स्वरे निषेधाच्च । तेन पटयति इति सिद्धम् । प्रकृते च द्वित्वनिषेधे स्थानिवत्त्वप्राप्तिः ॥