स्थान्यादेशयोर्भेदात् स्वं रूपम् (स्वं रूपं शब्दस्याशब्दसंज्ञा [[१.१.६८]]) इत्युक्तश्च तत्स्थानापन्नस्तद्धर्मं लभते, यथा गुरोः स्थाने शिष्यो याज्यकुलानि गत्वाऽग्रासनादीनि लभते इति लोकन्यायेन स्थानिकार्यमादेशे न स्यादतः स्थानिवत्सूत्रम् । न तु स्थान्यलेति । प्रत्यासत्तिन्यायलब्धमिदम् । आदेशस्य स्थानिभूतो योऽल् तत्स्थानिसम्बन्धी च योऽल् तद्वृत्तिधर्माश्रये नेत्यर्थः । अत एव रेफस्थानिकविसर्गस्य रुशब्दत्वं न स्थानिवत्त्वेनेति भोभगोअघोअपूर्वस्य योऽशि [[८.३.१७]] इत्यत्र भाष्ये स्पष्टम् । ऋधातोर्द्वित्वेऽभ्यासस्य उरत् [[७.४.६६]] अत्त्वेऽरित्यस्य हलादिः शेषः [[७.४.६०]] तु अरित्यस्य पुनः पूर्वोऽभ्यासः [[६.१.४]] इत्यनेनाभ्यासत्वात् । तस्यापि द्विरुक्तधातुपूर्वभागत्वात् । प्रक्रियाज्ञानवतां तथा ज्ञानस्य सुलभत्वात् । अत एव धिन्वन्ति इत्यादाविण् न । उकारवृत्त्यार्धधातुकत्वस्य वकारेऽनतिदेशात् । यत्त्वत्रेण्निवृत्तये स्वविधावपि स्थानिवत्त्वम् अपरविधौ इति न्यासेन साधितं भाष्ये, सा त्वेकदेश्युक्तिः । असिद्धवत्सूत्रेण सिद्धस्य आयन् आसन् इत्यादेस्तत्फलत्वेनोपन्यासात् । अस्यापि <!अचः पूर्वत्वविज्ञानात्!> इति वार्त्तिके पञ्चमीसमासेन सिद्धे कैयटेनोक्तत्वाच्च । प्रदीव्य इत्यादौ च वलादिलक्षण इण्न । स्थान्यलित्युक्तेः बभूविव इत्यादौ वलादिलक्षणेट्सिद्धिः । न हि तत्र वलादित्वं स्थानितो लभ्यम्; किन्तु स्वाश्रयमेव । यन्निमित्तवैकल्यप्रयुक्तोपदेशाप्रवृत्तावतिदेशो मृग्यते तस्य निमित्तस्य स्थान्यलसाधारणधर्मत्व एव निषेधप्रवृत्तेः । प्रकृते चाऽऽर्धधातुकत्ववैकल्यप्रयुक्ताऽप्राप्तिर्न तत्स्थान्यलसाधारणं, यच्च तादृशवल्त्वघटितं वलादित्वं न तद्वैकल्यप्रयुक्ताऽप्राप्तिरिति बोद्ध्यम् । प्रत्यासत्त्या च शास्त्रीयकार्ये एव स्थानिवत्त्वम् । तेन नायक-सिद्धिः । प्राधान्यात्कार्यातिदेशोऽयम् । शास्त्रातिदेशस्तु कार्यातिदेशादभिन्नरूपः । तस्यापि कार्यफलकत्वादिति तृज्वत्सूत्रे कैयटः । भाष्येऽपि तत्राऽङ्गशास्त्रातिदेशात्सिद्धमाङ्गं यत्कार्यं तदतिदिश्यते इत्युक्त्या तयोरभिन्नरूपत्वं सूचितम् । तत्रानपेक्षितार्थसन्निधानस्तत्तन्निमित्तरूपकार्यव्यवहार एवानेन । कार्यं तु स्वशास्त्रेणैवेति । अत एव रामाय इत्यादौ स्थानिवत्त्वेन सुप्त्वात् सुपि च [[७.३.१०२]] इति दीर्घः सङ्गच्छते । परिवी: इत्यादौ “परत्वाद् दीर्घ” इति च सङ्गच्छते । यद्वा किञ्चिन्निमित्तवैकल्येऽपि दीर्घादिकार्यमनेन क्रियते । तच्च कार्यं किम् ? इत्याकाङ्क्षायां तत्स्वरूपनिर्णयस्य विधिशास्त्रमूलकत्वेन तद्देशेनैव परशास्त्रविहितत्वरूपं परत्वं तेषां बोद्ध्यम् । एतदेवाभिप्रेत्य अतिदिश्यमानकार्याणामुपदेश एव देश इत्यभियुक्ताः । अत्राद्यपक्ष एव भाष्यसम्मतः । अत एव स्यान्यल्विधिप्रतिषेधे कुरुवधपिबां प्रतिषेधो वक्तव्य इत्येतदुपपादनावसरे स्थानिवद्भावादङ्गसंज्ञा स्वाश्रयं च लघूपधत्वादि तत्र लघूपधगुणादिः प्राप्नोति इत्यादिभाष्योक्तेरिति बोद्ध्यम् । एवं यन्निमित्तवैकल्यप्रयुक्तोपदेशाप्रवृत्तिस्तन्निमित्तातिरिक्तसर्वनिमित्तकत्वमतिदेशस्यापि । अत एवेष्ठवद्भावेनातिदिष्टभत्वस्य वर्णाश्रयत्वमित्यादिव्यवहारः । सर्वातिदेशेष्विदं तुल्यम् । यन्निमित्तवैकल्यप्रयुक्तोपदेशाप्रवृतिस्तन्निमित्तं शास्त्रीयमेव, प्रत्यासत्तेः । स्थानिवदित्युक्तेः सम्बन्धिशब्दमहिम्नैवाऽऽदेशलाभे आदेशग्रहणं श्रौतस्थान्यादेशभावस्यैव ग्रहणमिति शङ्कावारणद्वारा एरु: [[३.४.८६]] इत्यादौ शब्दानित्यत्ववारणाय सर्वे सर्वपदादेशा इति न्यायेन कल्प्यमानस्य तेस्तु: इत्यानुमानिकादेशस्य संग्रहार्थम् । तेन पचतु इत्यादेः पदत्वसिद्धिरिति भाष्ये स्पष्टम् । ननु तोस्तित्त्वमपि छिन्नपुच्छे शुनि श्वत्वव्यवहारवल्लोकन्यायेनैव सिद्धम् । तदुक्तं प्राग्दीव्यतोऽण् [[४.१.८३]] इति सूत्रे भाष्ये दीव्यतिशब्दैकदेशदीव्यच्छब्दानुकरणमिदम् इत्युक्त्वा – किमर्थं विकृतनिर्देशः ? एतदेव ज्ञापयत्याचार्यो भवत्येषा परिभाषा <ऽ एकदेशविकृतमनन्यवदिति ऽ> <{PB३७}> । अत एवात्र विकारोऽप्यशास्त्रीयोऽपि । अत एव श्रायसशब्दादण्णन्ताद् द्विवचने श्रायसौ इत्यत्र वृद्धौ कृतायां सान्तस्योगित्त्वेनानेन न्यायेनाङ्गतया प्राप्तो नुम् पूर्वसम्बन्धिविधित्वेन अचः परस्मिन् पूर्वविधौ [[१.१.५७]] इति स्थानिवत्त्वेन वारितो अचः परस्मिन् पूर्वविधौ [[१.१.५७]] इति सूत्रे भाष्ये । एतन्न्यायानाश्रयणे त्वङ्गत्वमेव दुर्लभम् । अन्तादिवत्सूत्रे (अन्तादिवच्च [[६.१.८५]]) भाष्यकैयटयोरपि गुडोदकम् इत्यादावेकादेशे कृते दकशब्दस्यानेन न्यायेनोदकशब्दत्वमाश्रित्य उदकेऽकेवले [[६.२.९६]] इति पूर्वपदान्तोदात्तत्वमुक्तम् । शब्दानित्यत्वं तु रेखागवयन्यायेन समाधेयम् । अनन्यवदित्यस्यान्यवन्नेत्यर्थः । तत्रान्यसादृश्यनिषेधेऽन्यत्वाभावः सुतरामिति चेत्, न । अर्द्धस्यान्यत्वे जातिव्यञ्जकभूयोऽवयवदर्शनाभावेन तौ तित्त्वप्रतीतेर्न्यायेनानुपपादनात् । किञ्च तिङ्सञ्ज्ञायास्तिबादिसूत्रोपात्तपरिच्छिन्नपरिमाणनिष्ठतया परिच्छिन्नपरिमाणार्थवाचकशब्दानां न्यूनेऽधिके वा शास्त्रव्यापारं विनाऽप्रवृत्तेः “येन विधिः” (येन विधिस्तदन्तस्य [[१.१.७२]]) इति सूत्रेऽङ्गसंज्ञासूत्रे (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् [[१.४.१३]]) च भाष्ये उक्ततया तदभावात् । न्यूनाधिकत्वञ्च वैरूप्यस्योपलक्षणम् । न च तण्डुलान् इत्यादौ स्थानिवद्भावेन प्रत्ययान्तत्वेऽपि स्वतः प्रत्ययान्तभिन्नत्वात्प्रातिपदिकत्वापत्तिरिति वाच्यम् । अतिदेशस्वभावेनातिदिश्यमानधर्मविरुद्धस्वाश्रयकार्याभावात् । अत एव जहि इत्यादौ जादेशस्यासिद्धत्त्वे स्वाश्रयो हेर्लुग्न । सिद्धत्वासिद्धत्वयोर्विरोधात् । असिद्धवत्सूत्रन्तु शाधि इत्यादौ स्थानिप्रयुक्तधिभावसम्पादनेन चरितार्थम् । न च अप्रत्ययः इत्यस्य पर्युदासत्वे शास्त्रीयकार्याभावात्स्थानिवत्त्वं दुर्लभमिति वाच्यम् । वेः स्कन्देरनिष्ठायाम् [[८.३.७३]] इति षत्वविधायके तिङन्तेषु षत्वाभावायाऽऽवश्यकेन न्याय्येन चानिष्ठायामिति पर्युदासेन वृत्त्यादिसम्मतेन पर्युदासलभ्याशास्त्रीयेऽपि शास्त्रतात्पर्यविषये शास्त्रीयवदतिदेशबोधनात् । विस्कन्नः इत्यादौ हि निष्ठानत्वस्य नित्यतया स्थानिवत्त्वेनैव निष्ठात्वस्य वक्तव्यत्वात् । तस्य प्रसज्यप्रतिषेधत्वे तु लक्ष्यानुसारिव्याख्यानादेवोक्तार्थसिद्धिरिति बोध्यम् । केचित्तु भाष्ये तत्स्थानापन्ने तद्धर्मलाभस्य तत्कार्यस्य च लोकन्यायेनैव सिद्धेरयमतिदेश: “स्वं रूपम्” (स्वं रूपं शब्दस्याशब्दसंज्ञा [[१.१.६८]]) इत्येतच्छास्त्रसत्त्वाद्धन्तेः कार्यं वधौ न स्यात् इत्युक्तम् । एवञ्च “स्वं रूपम्” इति शास्त्राविषये तेन सिद्धिरिति सूचितम् । एवञ्चाशास्त्रीयस्यापि धर्मस्यातिदेशो भवत्येव । अतिप्रसङ्गस्तु लक्ष्यानुसारेण क्वचिल्लोकन्यायानाश्रयणेन परिहरणीयो यदि प्राप्नोति । एवञ्च न कश्चिद्दोषः । न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु [[१.१.५८]] इति सूत्रे ब्राह्मणकण्डूतिः इत्युदाहरणाच्च क्वचित्तदनाश्रयणम् । तत्र हि कण्डूयतेः क्तिचि तस्य स्थानिवत्त्वादुवङि यणि वानादिष्टादचः पूर्वत्वे स्थानिद्वारके गृह्यमाणे ऊठ् न स्यादित्याहुः । अत एवार्थवत्सूत्रशेषे (अर्थवदधातुरप्रत्ययः प्रातिपदिकम् [[१.२.४५]]) “अप्रत्ययः” इत्यस्य पर्युदासत्वमेवोक्तं भाष्ये । तत्र पक्षे च काण्डे इत्यत्र पूर्वान्तवद्भावेन प्रत्ययान्तभिन्नत्वाद्दोषः शङ्कितो न तु स्वाश्रयाप्रत्ययान्तत्वेन । क्षियो दीर्घात् [[८.२.४६]] इति सूत्रे भाष्येऽपि अतिदिश्यमानधर्मविरुद्धस्वाश्रयकार्याभाव इति स्फुटम् । तत्र हि “क्षिय” इत्यत्रेयङर्थं प्रकृतिवदतिदेशे स्वाद्यनुत्पत्तिमाशङ्क्य एवं तर्हि आतिदेशिकानां स्वाश्रयाणि न निवर्त्तन्ते इति समाधायातिदिश्यमानधर्मविरुद्धस्वाश्रयनिवृत्तेरावश्यकत्वाभिप्रायेण “अथाप्येतन्न” इत्याशङ्क्य “निर्देशसामर्थ्याद्विभक्तिः” इत्युक्तम् । असिद्धवत्सूत्रे (असिद्धवदत्राभात् [[६.४.२२]]) च कैयटे स्फुटमेतत् । यत्तु गाङ्कुटादिसूत्रे (गाङ्कुटादिभ्योऽञ्णिन्ङित् [[१.२.१]]) भाष्ये सृजिदृशोर्झल्यमकिति [[६.१.५८]] इत्यत्र “अकिति” इति पर्युदासात् सिसृक्षति इत्यत्र हलन्ताच्च [[१.२.१०]] इति कित्त्वातिदेशेऽपि अमागममाशङ्क्य प्रसज्यप्रतिषेधाश्रयणेन समाहितम्, तत्तु वार्त्तिक कृदुक्तमुपायान्तरं बोद्ध्यम् । अनल्विधौ इति विधिग्रहणादलाश्रये विधावित्यर्थात्, यत्र विधौ शब्दतः स्थानिस्थान्यवयवान्यतराल्वृत्तिधर्मवतः तेन, तस्मात्, तस्य, तस्मिन्, तदादेरित्यादिप्रकारेण विशेष्यतया विशेषतया वा अलाश्रयणं तत्र निषेधः । व्यूढोरस्केन, द्यौः, द्युभ्यां, क इष्टः, प्रपठ्य इत्युदाहरणानि । शब्दत इत्युक्तेः “अग्रहीत्” इत्यादौ इट ईटि [[८.२.२८]] इति सिद्ध्यति । दीर्घविधावत्र चेट इति समुदायाश्रयणात् । अन्यथा टस्यानुबन्धत्वादिकारस्यैवोभयत्राश्रयणमित्यल्विधित्वं स्यात् । अत्र सूत्रे विशेषातिदेशोऽपि । अन्यथा इडादेरपि क्त्वः सत्त्वात् वलादित्वस्य तद्विशेषधर्मत्वात् उपस्थितधर्मैस्तद्व्यापकधर्मैश्च विध्याकाङ्क्षापूरणे सति तदतिरिक्तविशेषग्रहणे मानाभाव इत्येतन्न्यामूलकेन सामान्यातिदेशे विशेषानतिदेशेन सिद्धौ विशेषणतयाऽलाश्रयणे निषेध इत्येतत्प्रतिपादकस्य “अनल्” इत्येव सिद्धे कृतस्य विधिग्रहणस्य वैयर्थ्यं स्यात् । हलादिक्ङिन्निमित्तकेत्त्वप्रतिषेधकात् न ल्यपि [[६.४.६९]] इति लिङ्गाच्च अनुबन्धकार्ये त्वनल्विधाविति निषेधो न, अनुबन्धानामनेकान्तत्वात् । एकान्तत्वेऽपि शिद्ग्रहणेन तेषामल्व्यवहाराभावज्ञापनात् । <ऽ नानुबन्धकृतमनेकाल्त्वम् ऽ> <{PB६}> इति ज्ञापयति इति भाष्येऽल्त्वव्यवहाराभावबोधनद्वारेति शेषः । ध्वनितञ्चेदं क्ङिति च [[१.१.५]], गाङ् लिटि [[२.४.४९]], हलः श्नः शानज्झौ [[३.१.८३]] इति सूत्रेषु भाष्ये । तत्राद्ये यासुटो ङिद्वचनान्ङिदादेशा ङितो नेति ज्ञाप्यते इत्युक्तम् । द्वितीये गाङो ङित्त्वस्य सानुबन्धकादेशे इत्यकार्याभावज्ञापकतोक्ता, तिबाद्यादेशेषु पित्त्वासिद्ध्या दूषितं च ज्ञापकम् । अन्त्ये शानचः शित्त्वस्य सार्वधातुकादेशे अनुबन्धास्थानिवत्त्वज्ञापकत्वमुक्तं, उक्तदूषणैरेव दूषितञ्च । अन्यथाऽनल्विधाविति निषेधेन तत्त्वाप्राप्त्या ज्ञापकत्वासङ्गतिः, तिबाद्यादेशेषु पित्त्वाद्यसिद्धिश्चेति बोद्ध्यम् ॥