अनेकाल् शित् सर्वस्य [[1.1.55]] । शित उदाहरणम् इदम् इश् [[5.3.3]] । ननु शकारोच्चारणसामर्थ्याद् भूतपूर्वानेकाल्त्वमादाय सर्वादेशत्वे सिद्धे शिदिति व्यर्थम् । किञ्च सानुबन्धकनिर्देशे यथा नालः स्थानित्वं भोभगो.. [[8.3.17]]इति सूत्रे भाष्ये उक्तम्, तथाऽऽदेशत्वमपि सूत्रोपात्तस्यैवेति तद्व्यर्थम् । विधौ निर्दिष्टो योऽनेकाल्स सर्वस्येति सूत्रार्थः । उद्देश्यत्वविधेयत्वाख्यविषयतया बोधविषयता तु अनुबन्धविनिर्मुक्तस्येति न अणुदित् [[1.1.69]] सूत्रभाष्यविरोधः । ध्वसोः… [[6.4.119]] इति लोपस्य लोपो यि… [6.4.118]] इति प्रकृते पुनर्लोपग्रहणसामर्थ्यात्सर्वा देशत्वसिद्धिः । अनुबन्धानामेकान्तत्वमेव न्याय्यमित्युक्तमिति चेन्न, नानुबन्धकृतमनेकाल्त्वम् इति ज्ञापनेन चारितार्थ्यात् ।
तेन दिव औत् [[7.1.84]] इत्यादिना न सर्वादिशत्वम् । अस्य च यथेत्सञ्ज्ञा तथा वक्ष्यते ।