ङिच्च [[1.1.53]] । अनेकालर्थमिदम् । आदेरिति । आदेरल इत्यर्थः । तेन द्वीपम् इत्यादौ पान्तसमुदायस्य नेत्वम् । अत्र परस्येत्यावर्त्तते । तेन परबोधकशब्देन यत्र परस्य स्थाने विधानं तत्रैवेदम् । तेन नित्यं ङितः [[3.4.99]] इत्यादौ न दोषः । तत्र विकरणव्यवधाने प्रवृत्तये धातो: [[3.1.91]] इत्यस्य विहितविशेषणत्वात् ।