अलोऽन्त्यस्य [[1.1.52]] । षष्ठी स्थाने इत्यनुवर्त्तते; तदाह - षष्ठी इत्यादि । स्थाने विधीयमानः स्थानषष्ठीनिर्दिष्टान्त्यस्येत्यर्थः । स्थान इत्यादि किम्? इट् तृच ऋकारात्पूर्वो मा भूदिति । अन्त्यस्येति साहचर्यादल इति षष्ठ्यन्तम्, अन्त्यस्याल इत्यर्थः । अल इति किम्? पदस्येति विधीयमानं वसुस्रंसु [[8.2.72]] इति दत्वं स्वनडुद्ध्याम् इत्यादावन्त्यस्य पदस्य मा भूत् । स्थाने विधीयमान इति प्रत्यासत्तिलब्धम् । एवञ्चाल एवेति अन्त्यस्यैवेति नियमद्वयमत्र । अल्समुदायबोधकपदोत्तरं स्थानषष्ठी अस्या लिङ्गम् । अत एव इतोऽत् [[7.1.86]] इत्यादौ नास्याः प्रवृत्तिः । पथ्यादी नामित्यस्यावयवषष्ठीत्वात्, इत इत्यस्याल्समुदायोत्तरत्वाभावाच्च ।