उरण् । “उ: स्थाने” इति षष्ठी स्थानेयोगा [[१.१.४९]] इति परिभाषया लब्धम्, उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य [[८.२.४]] इतिवत् । स्थानेऽन्तरतमः [[१.१.५०]] इत्यतः स्थानेग्रहणमनुर्त्तते, तस्य लक्षणया प्रसङ्गावस्थायामित्यर्थस्तदाह - रपरः सन्नेवेति । रपर इत्यवयववाचिना परशब्देन षष्ठ्यर्थे बहुव्रीहिः, तेनास्यावयवत्वात् “यदागमा” (<ऽ यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते ऽ> <{PB११}>) इति न्यायेन विशिष्टस्य गुणवृद्धित्वेन ऋकारस्य गुणवृद्धी अरारावेव इति नियमोपपत्तिः । अत एव रदाभ्यां निष्ठातो नः पूर्वस्य च दः [[८.२.४२]] इति सूत्रे थलि च सेटि [[६.४.१२१]] इति सूत्रे च भाष्ये गुणो भवति वृद्धिर्भवतीति रेफशिरा गुणवृद्धिसञ्ज्ञकोऽभिनिर्वर्त्तते इत्युक्तम् । उ: स्थानेऽण् प्रसज्यमान एव रपरो भवति, पूर्वभक्तश्च रेफ इत्यर्थ इति कैयटः । अवयवत्वं वाचनिकमेव तत्सादृश्यबोधनपर्यवसायि । अन्यथा वर्णस्य वर्णान्तरावयवत्वं हलन्ताच्च [[१.२.१०]] इति सूत्रभाष्योक्तरीत्याऽसङ्गतं स्यात् । पञ्चम्यर्थे बहुव्रीहिणाऽनवयवत्वे तु गुणवृद्धिशब्देनाकारादेरेव रेफपरस्यैतदेकवाक्यतया विधानं स्यात् । गुणत्वादिकन्त्वकारादिनिष्ठमेव स्यात् इत्युक्तनियमानुपपत्तिः । अत एव वव्रे इत्यादौ हलादिः शेषः [[७.४.६०]] सिद्धिः अभ्यासावयवस्यैवानादेस्तेन निवृत्तेः । एतेनाणमनूद्य रपरत्वं विधीयते इति परास्तम् । उक्तनियमानुपपत्तेः । अत्र पक्षे क्व रपरत्वं क्व लपरत्वमिति व्यवस्थाऽनुपपत्तिस्तु न । रेफवत्स्थानिकस्य रेफपरत्वं, लकारवत्स्थानिकस्य लपरत्वमिति व्यवस्थासम्भवात् । तत्रान्तरतम्यादिति । स्थानत इति भावः । रेफादिद्वाराऽऽदेशस्यापि मूर्धादिस्थानत्वात् । तत्र तत्राऽऽदेशानेव रलपरांश्चोच्चार्येदं सूत्रं न कार्यमिति तु न वाच्यम् । आप्ज्ञप्यृधामीत् [[७.४.५५]], भृञामित् [[७.४.७६]] इत्यादौ दोषापत्तेः । अत्राण् पूर्वेणैव प्रशास्तॄणाम् इति निर्देशात् । वस्तुतो रप्रत्याहाराभावेन रपर इत्यस्य स्थान र्लपर इति पठनीयमिति लपरत्वं वक्ष्यामि इति तुल्यास्यसूत्रभाष्याल्लभ्यते ॥