स्थानेऽन्तरतमः [[1.1.500]] । षष्ठीत्यनुवृत्त्या यत्र स्थानषष्ठी तत्रेदमुपतिष्ठते इति विद्ध्येकवाक्यतयैवास्य नियामकत्वम्, न तु विहितानां नियमः । ‘भुक्तवन्तम्’ इति न्यायविरोधात् । फलितमाह प्रसङ्गे इति । सदृशतम इति । अर्थात्प्राप्यमाणानां मध्ये एव । अत एव गङ्गोदकम् इत्यादौ त्रिमात्रो न । तमप् किम् ? वाग्घरिः इत्यादौ महाप्राणत्वसाम्येन जायमानः पूर्वसवर्णो वर्गद्वितीयो मा भूत् । किन्तु नादवान् महाप्राणश्चतुर्थो घ एव यथा स्यादिति । स्थानेऽन्तरतमे इति सप्तम्यन्तपाठस्तु दीर्घेषु यणसिद्ध्या दुष्ट इति भाष्ये स्पष्टम् ।
यत्रानेकेति । स्थानेग्रहणे एकदेशानुवृत्त्याऽनुवर्त्तमाने पुनः स्थानेग्रहणं तृतीयया विपरिणामेन वाक्यभेदमाश्रित्य प्रसङ्गे सति सम्भवे स्थानत एवान्तरतम इत्यर्थमिति भावः । स्थानत इति । स्थानेनेत्यर्थः । तत्र स्थानतः - इको यणचि [[6.1.77]] इति । अर्थतः - तृज्वत्क्रोष्टुः [[7.1.95]] इति । इह क्रोष्टुशब्दस्थाने पक्तृशब्दो नादेशः । गुणतस्तु — वाग्घरिः इत्यादौ । प्रमाणतः — अदसोऽसे… [[8.2.80]] इत्यादौ ।