परिभाषाणामनियमे नियमकारिणीत्वादाह - अनिर्धारितेति । तेन ऊदुपधाया गोह: [[6.4.89]] इत्यत्र स्थानेयोगत्वं न, उपधापदसन्निधानेनावयवषष्ठीत्वनिर्णयात् । स्थानेयोगेत्यस्य स्थानपदार्थनिरूपितसम्बन्धार्थिकेत्यर्थः । स्थानेन योगो यस्या इति विग्रहे निपातनात् साधुत्वस्य भाष्ये उक्तत्वात् अस्तेरनन्तरे इत्यादेरपि अनन्तरादिनिरूपितसम्बन्धे इत्येवार्थः । षष्ठीमात्रोच्चारणे स्थानपदाद्यध्याहार इत्यन्यत्र विस्तरः ।

प्रसङ्ग इति । दर्भाणां स्थाने शरैः प्रस्तरितव्यम् इत्यादौ तथा दर्शनात् । भावे ल्युट् स्थानशब्दे । प्रसङ्गश्च सति सम्भवेऽर्थवत एव, अर्थप्रत्यायनार्थं शब्दप्रयोगात् । इको यणचि [[6.1.77]] इत्यादेरच्परेकारघटितशब्दस्यार्थबोधनाय प्रसङ्गे तत्परयकारघटितः प्रयोक्तव्य इत्यर्थः । एरुः [[3.4.86]] इत्यादेश्च तेस्तुरिति, अतो न शब्दनित्यताहानिः ।

किञ्चेकारबुद्धिप्रसङ्गे यकारबुद्धिरित्यर्थः अत एव अचः परस्मिन्.. [[1.1.57]] इत्यादि सङ्गच्छते। स्पष्टञ्चेदं दाधा घ्वदाप् [[1.1.20]] इति सूत्र- स्थानिवत्… [[1.1.56]]-सूत्रयोर्भाष्ये ।