आद्यन्तौ टकितौ । यद्यप्यत्र मिलितस्य नैकत्रान्वय इति द्वन्द्वो न प्राप्नोति तथापि समूहयोरन्वयबोधोत्तरं यथासङ्ख्यम्… [[1.3.10]] इति सूत्रारम्भसामर्थ्यात्पुनः प्रत्येकान्वयः । लोके त्वेवंरीत्या प्रयोगोऽसाधुरेवेति भाष्ये स्पष्टम् । अत्रैव यथासङ्ख्यसूत्रोपन्यासो युक्तः । द्वन्द्वान्ते श्रूयमाणस्येच्छब्दस्य प्रत्येकं सम्बन्धः । पुरस्तादपवादन्यायेन स्थानेयोगत्वस्यायमपवादः । प्रत्ययपरत्वन्तु परत्वादमुं बाधते। तेन चरेष्टादयः परा एव भवन्ति । अत एव यत्रैतदभावे स्थानषष्ठीसम्भावना तत्रैवेदं प्रवर्तते; तदाह - यस्योक्ताविति। आद्यन्ताक्षिप्तोऽवयवी यच्छब्दार्थः । यथासङ्ख्यसिद्धमर्थमाह - क्रमादितिइतौ इति किम् ? टुक् पर्यायेणाद्यन्तयोर्मा भूत् ।