न वेति विभाषा । इतिर्लोकिऽर्थपदार्थकस्य शब्दपदार्थकत्वकृत्। यथा ‘गवित्ययमाहे’त्यादावनुकरणे। इह तु स्वं रूपम् [[1.1.68]] इति परिभाषणाच्छव्दपदार्थकस्यार्थपदार्थकत्वकृत् । क्वचिदितेर्न पदार्थविपर्यासकत्वं यथाऽनुवादवाक्ये । स च नवाशब्दाभ्यां प्रत्येकं सम्बध्यते, व्याख्यानात् । तेन नवाशब्दयोरर्थौ सञ्ज्ञिनौ । स्वं रूपम् [[1.1.68]] इत्यस्य प्रत्याख्याने त्वितिशब्दो व्यर्थ एव, अर्थे कार्यस्याबाधात् । तयोरेव सञ्ज्ञित्वे तु विभाषा श्वे: [[6.1.30]] इत्यादौ नवाशब्दावादेशौ स्याताम्। प्राप्तविभाषासु नास्योपयोगः, तासां पक्षे निवृत्तिमात्रफलकत्वात् । अप्राप्तविभाषास्वपि न, तासां पक्षे विधिमात्रार्थत्वात्। अप्राप्तत्वेन निषेधासम्भवाच्च, तस्मादुभयत्र विभाषार्थमिदम् । विभाषा श्वे: [[6.1.30]] इत्यादौ एतदभावे यदि विधिमुखेन प्रवृत्तिस्तर्हि पित्स्वेव विकल्पः स्यात्, कित्सु तु नित्यमेव सम्प्रसारणं स्यात् । निषेधमुखेन प्रवृत्तौ कित्स्वेव प्रवर्तेत न पित्सु । उभयथा प्रवृत्तिस्तु- वैरूप्याद्वाक्यभेदापत्तेश्चाशक्या। सञ्ज्ञाकरणे तु श्रुतक्रमानुरोधात्पूर्वं कित्सु निषेधस्ततः किदकिद्रूपे सर्वस्मिन् लिटि ऐकरूप्यं प्रापिते सति ‘पक्षे भवती’त्येकरूपेण विधिमुखेनैव विकल्पः ।

भाष्यकृतस्तु- एवं हि हृक्रोरन्यतरस्याम् [[1.4.53]] इत्यादावनुपपत्तिर्विभाषापदाभावात् । इतिशब्दस्य विभाषेत्यत्रापि ([[1.1.44]]) सम्बन्याद्विभाषापदार्थः सञ्ज्ञा इति तु न युक्तम्, अर्थे सञ्ज्ञात्वस्यादृष्टत्वात् । अर्थाक्षिप्तशब्दमात्रं सञ्ज्ञेत्यपि न युक्तम्, एकस्यार्थस्य - समानफलकानेकसञ्ज्ञाकरणस्य अनाकृतिः सञ्ज्ञा इति वृद्धिसञ्ज्ञासूत्रस्थभाष्येण तिरस्कारात्। तस्मात्तत्र लक्ष्यानुसारेणैवोभयमुखेन प्रवृत्तिर्वाच्येति- विभाषापदघटितेऽपि तथैवास्तु, किं सूत्रेणेति- जातिव्यक्तिपक्षयोरुभयोरपि सूत्रं प्रत्याचख्युः ।