अथ परिभाषाप्रकरणम् ॥ इको गुणवृद्धी। परिभाषेयं व्याख्यानात् । गुणवृद्धिशब्दाभ्यामिति । गुणवृद्धिग्रहणानुवृत्त्यैव सिद्धे पुनर्गुणवृद्धिग्रहणसामर्थ्यादिति भावः । अनुवर्तमानञ्च सञ्ज्ञिपरमेव स्यात् सञ्ज्ञाकरणेनान्यत्र सञ्ज्ञिपरत्वात्। यद्वा-तदप्यनुवर्त्य गुणो वृद्धिरिति योजनयैतल्लाभः । स्वादिष्वसर्वनामस्थाने [[1.4.17]] इति सूत्रेऽनुवृत्त’पद’पदस्य सञ्ज्ञापरताया एव दृष्टत्वात् । ष्णान्ता षट् [[1.1.24]] इति सूत्रे सङ्ख्यापदस्य तदन्तत्वासम्भवादर्थपरतेति बोद्ध्यम् । लक्षणप्रतिपदोक्तपरिभाषया तु नात्र निर्वाहः । तत्र ‘प्रतिपदोक्तस्ये’त्यस्य - साक्षादुच्चारितस्येति, साक्षात्तत्तच्छब्दानुवादेन विहितस्येति वाऽर्थात् । ध्वनितञ्चेदमत्रैव भाष्ये ।

अस्याश्च विधेयसमर्पकगुणवृद्धिपदश्रुतिर्लिङ्गं, तदाह - विधीयेते इति । अत एव अतो गुणे [[6.1.897]], वृद्धिर्यस्य.. [[1.1.73]] इत्यादौ न दोषः । एतेन — शब्दपरयोः पूर्वयोर्गुणवृद्धिपदयोरनुवृत्त्या यत्र ते पदे तत्रेदमुपतिष्ठते इत्यर्थेन त्यदानीनामः [[7.2.102]] इत्यादिव्यावृत्तौ सिद्धायामिह गुणवृद्धीति व्यर्थम् — इत्यपास्तम् ।

एतन्मूलक एव विधौ परिभाषोपतिष्ठते नानुवादे इत्युद्घोषः । एवञ्च पदोपस्थापकपरिभाषाविषये विधीयते इत्यस्यैवाध्याहारो बोद्ध्यः । एवञ्च तस्मिन्निति निर्दिष्टे [[1.1.66]], षष्ठी स्थानेयोगा [[1.1.49]] इत्यादेरनुवादेऽपि प्रवृत्तिः । तेन प्रत्ययस्थात्कात्पूर्वस्य [[7.3.44]] उदात्तस्वरितयोर्यणः [[8.2.4]] इत्यादौ न दोषः । उदीचामातः स्थाने [[7.3.46]] इति स्थानेग्रहणन्तु स्पष्टार्थमेव। तत्र विधिवाक्ये प्रथमाया विधेयविभक्तित्वेन तदन्तस्य विधेयसमर्पकत्वनिर्णयः । अत एव गुणादिपदानामिक्पदोपस्थापनेन चरितार्थानामपि वाक्यार्थान्वयिता । तदर्थस्य तदनन्वयित्वे विधेयत्वाभावेन उपस्थापकत्वस्यैव भङ्गापत्तेः । इयञ्चैधितेत्यादौ व्यञ्जनानां गुणव्यावृत्त्यर्थं, ‘भिन्नमि’त्यादौ निषेधप्रवृत्तये इग्लक्षणत्वसम्पत्त्यर्थञ्चेति दिक् ।