वृद्धिरादैच् । वृद्धिः, आत्, ऐजिति पदत्रयमिति- न समासान्तादिप्रवृत्तिशङ्का । तपरकरणमसन्देहार्थतया पूर्वार्थम्, प्रकृतसूत्रे भाष्येऽत्र शास्त्रे गुणानामभेदकत्वं ज्ञापकादाश्रित्य सवर्णग्रहणार्थत्वाभावस्योक्तत्वात् । कृष्णौत्कण्ठ्यं, गङ्गौघ इत्यादौ त्रिमात्रव्यावृत्तये परार्थमपि वृद्धिशब्दोऽत्र पदपरोऽर्थपरत्वासम्भवात् । आदैचो वृद्धिपदाऽभिन्ना इति वाक्यार्थः, पदपदार्थयोस्तादात्म्यस्याङ्गीकारात् रामेति द्व्यक्षरं नाम मानभङ्ग पिनाकिनः इत्यादौ तयोरभेदप्रतीतेरनुभव सिद्धत्वादित्यन्यत्र विस्तरः ।

वृद्धिशब्दस्य सञ्ज्ञात्वन्तु व्याख्यानात् । विधेयत्वेऽपि तस्य पूर्वपाठो मङ्गलार्थः । अपृक्त एकाल् [[1.2.41]] इत्यादौ तथा करणं विधेयस्य प्रथमं प्रयोगेऽसाधुत्वभ्रमनिवारणायेति भाष्ये स्पष्टम् । सर्वशब्दानां सर्वार्थवाचकत्वेऽपि वाचकत्वस्य गृहीतस्यैव बोधजनकतया सञ्ज्ञासूत्राणामज्ञातशक्तिज्ञापकतया विधित्वम्। किञ्च सर्वे सर्वार्थाः इत्यभ्युपगमो योगिदृष्ट्या नास्मदृष्ट्या, सर्वशब्दानामर्थानाञ्च विशिष्य ज्ञानाभावात् सामान्यतस्तथा ज्ञानञ्च न बोधोपयोगि शास्त्रन्त्वस्मदाद्देशेनैव प्रवृत्तमिति योद्ध्यम् तत्रैव सङ्केत ग्राहकशास्त्रकरणं स्वेच्छयैवेत्येषां ‘यदृच्छा’ शब्दत्वेन व्यवहारः, ‘स्वेच्छया सञ्ज्ञाः क्रियन्त’ इति च । एतदुपदेशरूपसङ्केतात्प्राक् तत्र सञ्ज्ञात्वाग्रहेण तासामनित्यत्वव्यवहारः ।

अत एव तत्तत्सञ्ज्ञाकरणज्ञानरूपप्रकरणादन्यार्थाग्रहणरूपनियमः कृत्रिमा कृत्रिम न्यायमूलतयोक्तः सङ्ख्यासूत्रे भाष्ये। आर्थिकमेवामुं नियममादाय सञ्ज्ञासूत्रेषु नियमत्वव्यवहारो- व्यवहाराय नियमः क्वचिदित्यादिना कृतः । सञ्ज्ञाया: सञ्ज्ञिनि वाचकताबोधकत्वेऽपि तदनुत्पादकत्वान्न शब्दार्थ सम्बन्धनित्यताहानिः । आसाञ्च शिष्टप्रयुक्तत्वात्साधुत्वमित्यन्यत्र विस्तरः ।

कार्यकालपक्षे मृजेर्वृद्धि [[7.2.114]] इत्यादौ वृद्धिपदार्थजिज्ञासायां वृद्धिरादैच् [[1.1.1]] इत्युपस्थित्या तदर्थबोधरूपे शक्तिग्रहे वृत्ते विधिवाक्यार्थबोधः । अत एव ष्यङ: सम्प्रसारणम् [[6.1.13]] इति सूत्रे भाष्ये- <ऽकार्यकालं सञ्ज्ञापरिभाषम्ऽ>, भस्येत्युपस्थितमिदं भवति- यचि भम् [[1.4.18]] इति इत्युक्तम् । ईदूदेद् [[1.1.11]] इति सूत्रे भाष्येऽपि- <ऽकार्यकालं सञ्ज्ञापरिभाषम्ऽ>, प्रगृह्य: प्रकृत्येत्युपस्थितमिदं भवति ईदूदेद् द्विवचनं प्रगृह्यम् [[1.1.11]] इति। निष्ठा [[3.2.102]] इति सूत्रे कैयटोऽपि- निष्ठेत्युक्ते सञ्ज्ञावाक्यं - क्तक्तवतू निष्ठा [[1.1.26]] इति स्मर्यते इत्याह । अत्र पक्षे एकत्र शक्तिग्रहे वृत्तेऽपि तत्प्रदेशस्थस्यैव तत्रार्थे शक्तिरिति सम्भावनया प्रदेशान्तरस्थे बोधो न स्यादिति सर्वप्रदेशेषु तत्तत्पदशक्तिग्रहपूर्वकं विधिवाक्यार्थबोधः। यथोद्देशे तु एकदैव शक्तिग्रहात्सर्वत्र बोध इति विशेषः। एतेन- कार्यकालपक्षे तपरत्वं स्पष्टार्थमेव, आदैच्पदार्थस्य विधेयत्वेन सवर्णग्रहणाप्रसक्तेः । यत्र वृद्धिपदं तत्रादैजित्युपतिष्ठते इति क्रमेण सञ्ज्ञासूत्राणामर्थात् इत्यपास्तमित्यन्यत्र विस्तरः । अत्रातद्भावितानामपि आदैचां ग्रहणं, तेन शालीयादिसिद्धिः ।